________________
महवः
बी मीमसेनचरित्रे।
सना
दु:खितस्य, जागर्ति नो भोजनकर्मवृत्तिः ॥११॥ विषयचित्तो नृपतिस्ततोऽया-मूलं तरोस्तविटपे च पाशम् । निवख्य सद्यः प्रविधातुमैच्छ-निजात्मनो घातमनिन्द्यबुद्धिः ॥ १२ ॥ मुमूर्षितस्यापि तदैव तस्य, सद्भावना प्रस्फुरतिस्म चित्ते । मन्त्र स्मरन् सिद्धपदस्य सोऽस्था-धर्मोहि संरक्षणमापदायाम् ॥ ९३ ॥
आसीच्छ्रीसुखसागरः श्रुततपागच्छाम्बुजाहस्करः, सूरिः श्रीयुतबुद्धिसागरविशुस्तत्पादसेवारतः । तत्पद्वेऽजितसागरेण सुधिया, सूरीन्दुना निर्मिते, श्रीमद्भीमनरेशचारुचरिते सर्गोऽगमत्सप्तमः ॥१४॥
इति श्रीभीमसेननृपचरित्रे सप्तमः सर्गः समाप्तः ॥
॥३८॥
॥ अथाऽष्टमः सर्गः प्रारभ्यते ॥
केनापि नाज्जीयत य त्रिलोक्या, जिगाय सर्वान्समतानिधिर्यः ।
यः सर्ववित्सर्वजनोपकारी, तनोतु शं सोजितनाथ ईशः ॥१॥ इतोऽवसच्चारुशिलोच्चयस्थिते, बने महाभन्लुकसिंहगर्जिते । समाकुले पक्षिगणैर्सनीश्वरः श्रीधर्मघोषो विदितोऽतिलन्धिमान् ॥२॥ मासोपवासी सततं विधिज्ञो,-निवृत्तकामप्रमुखारिवर्गः। विशुद्धचारित्रगुणः कृपालुः, कषायजित्संयमि
॥३०॥
For Private And Persone
Only