________________
ShriMahavir JanArchanaKendra
Achanach
sagan Gyaan
॥ ७० ॥ पुरार्जितं यद्विवशेन येन, तद्वद्यते तेन नरेण लोके । उप्त्वा हि बब्बूलमवद्यबुद्धि, कथं लभेताऽऽम्रफलानि मूढः ॥ ७९ ।। वृथा गतं जीवितमेव मामकं, न कश्चिदर्थोऽस्ति ममेह साम्प्रतम् । अपुण्यवानस्मि समस्तदेहिनां, भवामि सर्वत्र विपत्तिभाजनम् ॥ ८॥ जगत्यहो कोऽपि न मादृशोऽन्यः, कृतप्रयत्नोऽपि विपद्गणाः । सहायदातापि भयप्रदाता, जातस्ततो भाग्यमतीव चित्रम् ।। ८१ ॥ बुद्धिस्तु कानुगता विभाज्या, तस्मादनर्थो न मयाऽवबुद्धः। यत्नप्रवन्धेन धनश्च लब्ध, नष्टश्च तत्सर्वमहोचणेन ॥ ८२ ॥ करोमि यत्तत्क्षयमेति सर्व, कर्माणि मे विघ्नविधायकानि । न पीडितः कोऽपि मयाज लोके, मिथ्याप्रवादश्च कदापि नोकः ॥ ८३॥ नाऽचूचुरं वस्तु कदापि किश्चि-त्रिधापि नो मे परदारसङ्गः। स्वदारसन्तुष्टमतिः सदाऽहं, न जारकर्माऽभिरुचिः कदाचित् ॥ ८४ ॥ राज्यासनस्थोऽपि न नीतिमार्ग-मुल्लङ्घय कश्चिदतुदं तुदन्तम् । नरेन्द्रवन्नाहमभव्यकर्म, समादिशं मानमदाभिपन्नः ॥८५ ॥ भवान्तरोत्पादितकर्मदोषं, ज्ञानीगुरु: केवलमेव वेत्ति । विमूढबुद्धिर्धनलोलुपोऽहं, हिताहितं ज्ञातुमनर्हएव ॥८६॥ दुःखातिभारेण मदीयमेत-द्रात्रं निरौजस्कमतीव जातम् । धनार्जनोपायमहो विधास्ये, कथं पुनर्दुर्लभसाधनोऽहम् ॥८७॥ “खन्चाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके, वाञ्छन्देशमनातपं विधिवशाचालस्य मूलंगतः। तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः, प्रायो गच्छति यत्र भाग्यरहितस्तत्राऽऽपदा भाजनम्" ॥८८ ॥ धिगस्तु मां दुःखदवाग्निदग्धं, न पूरये स्वोदरपीठरं हा । कथं हि कौटुम्बिकसंबकोऽहं, कलत्रपुत्रान्ननु पालयिष्ये ॥ ८६ ।। क्षुधासमं नास्ति नितान्तदुःखं, दारिद्यतुल्यो न रिपुर्द्वितीयः। तस्मादलं जीवितधारणेन, वरं हि मृत्युर्विमवोज्झितानाम् ॥ ३०॥ विचिन्तयन्भूप इति प्रतप्तो, मिष्टान्नमश्मन्यमुचत्समस्तम् । चुत्वामकुक्षेरपि
For Private And Personlige Only