________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
श्री भीमसेनचरित्रे।
सप्तमः सर्गः।
॥३६॥
पुरश्चे-दनर्थ एषोत्र नवै भवेन्मे ॥ ३६॥ महान्तरायो मम कर्मणोऽस्ति, यथा यथा यत्नमहं तनोमि । तथा तथाऽनर्थततिं ब्रजामि, किमय मे जीवितधारणेन ॥ ४०॥ इयन्ति दुःखानि नरो विसोढुं, शक्तो भवेत्कोत्र चली मदन्यः । जाने विधाता हृदयं मदीयं, विनिर्मित वज्रसमं कठोरम् ॥ ४१ ॥ विचिन्तयनेवमनोकहान्तिक-मासेदिवाञ्जावनितान्तवेदनः। स भीमसेनः प्रलयानिलोद्धत-श्रुचोभ पायोधिरिवातिसंभ्रमः ॥ ४२ ॥ गतं न शोचाम्यधुना विकर्मतो-जनिष्यमाणं किस भावि मे परम् । कलत्रपुत्रस्य समागमोऽथवा, भविष्यतीत्थं मनसा व्यचिन्तयत् ॥४३॥ वटं समाश्रित्य पुरा वनस्थितं, पाशं गलेऽहं कृतवान्मुमूर्षुः । महाजनः सोऽपि समेत्य सत्वरं, वैरीव चिच्छेद तदा तमुग्रधीः ॥४४॥ तत्पाशबन्धेन यदाऽमरिष्यं, तदेदमज्ञास्यमहं न दुःखम् । किं वा मुधा चिन्तनतो नराणां, बोभुज्यते कर्म भवान्तरेऽपि ॥ ४५ ॥ विचिन्त्य गत्वेति पुनः स तत्र, स्कन्धे तरोस्तस्य बबन्ध पाशम् । यावनिजं पाशगतं चकार, तावत्समागात्पुरुषोऽत्र सिद्धः ॥ ४६ ।। दात्तमालोक्य बलेन सिद्ध-स्तस्यायुषोजन्पदिति प्रयातः । योग्यं न ते कर्तुमिदं कुकृत्यं, धैर्य समाधेहि कियत्क्षणं भोः ॥४७॥ इति प्रजल्पन्पुरुषः स तस्य, चिच्छेद कण्ठार्पितपाशमाशु । भवन्ति लोकेषु तपस्विनो हि, प्राचैरपि स्वैः परकार्यदचाः ॥४८॥ उवाच तं योग्यतमं विदित्वा, सिद्धः स किं भो मरणोद्यतोऽसि । मानुष्यदेहं समवाप्य विद्वन्, धर्मार्थकामान् भज विक्रमेण ॥४९॥ ततोऽवदत्सिद्धनरं नरेशो,-दुःखान्यसंख्यानि कियद्रवीमि । अतोन लोके मरणं वरं मे, न जीवितेच्छा व्यसनौघहेतुः ॥ ५० ॥ सिद्धोऽब्रवीतं किमु देहनाशे, सुखानि संयान्ति भवान्तरेऽपि । कृतं हि सर्वत्र विमुज्यते शं, दुःखश्च जन्मान्तरदेहभाजा ॥ ५१ ॥ पुण्यैकलभ्यानि धनानि लोके, दुःखानि पापप्रमवानि विद्धि । सुखश्च
भा॥३६॥
For Private And Personlige Only