________________
ShriMahavir JanArchanaKendra
Achah
agarsun Gyaan
भीमसेनचरित्रे ।।
महान्तः । तृणमात्रजीवना अपि, करिणो दानद्रवाऽऽकराः ॥ १४९ ॥ परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः । परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम् ॥ १५० ॥ भवन्ति नम्रास्तरवः फलोद्गमै-नेवाऽम्बुभिरि विलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः, स्वभावएवैष परोपकारिखाम् ।। १५१॥ श्रोत्रं श्रुतेनैव न कुण्डलेन, दानेन पाणिनं तु कङ्कणेन । विभाति कायः खलु सज्जनानां, परोपकारैर्न तु चन्दनेन ॥ १५२ ॥ पद्माकरं दिनकरो विकचं करोति, चन्द्रो विकासयति कैरवचक्रवालम् । नाभ्यर्थितो जलधरोऽपि जलं ददाति, सन्तः स्वयं परहितेषु कृताभियोगाः"। १५२ ।। कृत्वा दयां परजनोपकृतिप्रधाना, श्रेष्ठी विधाय करगां छुरिकां स्वपाश्र्थात् । छित्त्वाऽऽशु पाशमकरोन्नृपतिं विमुक्तं, धर्मार्थिनां हि शुभकर्मणि को विलम्बः॥१५३॥ आश्वास्य तं हितवचस्ततिभिर्महेभ्यो-भूयो जगाद नरजन्म महानुभाव ?। संप्राप्य पुण्यवशतः किमिदं करोषि, को हेतुरत्र वद कार्यविधौ तवाऽस्ति ।। १५ । आत्मा जनेन सततं परिरक्षणीयोजीवनरो जगति भद्रशतानि पश्येत् । किश्चाऽऽत्मघातकजना निरयं प्रयान्ति, दुर्व्यातकर्मवशतो दुरितकधाम ।। १५५ ।। इत्थं वणिग्वरमुखाऽम्बुजनिर्गतं त-द्वाक्याऽमृतं हृदि निधाय निजस्वरूपम् । भीमो महेभ्यमखिलव्यसनाभिभूतो-प्यामूलमाश्रितमनारधृतिरावभाषे ॥ १५६ । श्रेष्ठी ततस्तमवदत्कुरु साहसं मा, संधेहि धैर्यकवचं शृणु मद्वचश्च । रामोऽपि दुःखमतुलं जनकाऽङ्गजाता, निर्वास्य साहसमतिर्विपिने प्रपेदे ॥ १५७ ॥ सन्त्यज्य भीमकसुतां विबुधो नलोऽपि, सेहे विपत्तिमतुलामविमृश्यकारी । आकस्मिकोद्यमवशाद्धरिचन्द्रभूपो-दुःखानि कानि न दधार धराधिपोऽपि ॥ १५८ ।। पाण्डोः सुता अपि विवेकविचारहीना-धर्माऽऽत्मजप्रभृतयो बनवासमीयुः । भिक्षा च तैर्न समये विरसाऽपि लेमे, राज्यं तथाऽपि धृतधैर्यगुणैः
For Private And Personlige Only