________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
शेशिवायचि-वसुभूमितवारकम् । मिथ्यादुष्कृतमेवाऽस्तु, मर्नुकामस्य मेञ्जसा ॥ १३५ ॥ उक्त्वैवं परमेष्ठीना, पश्चानां मन्त्रमुच्चरन् । नेत्राम्बूनि विमुश्चन्स-कण्ठे पाशं दधार हा ? ॥१३६॥ स चणोचिप्तवाति-लायन्त्र इवाऽभवत् । साहसं भीमसेनेन, कृतं दैववशेन तत् ॥१३७॥ भाग्येन तस्य महता जिनधर्मरक्तः, श्राद्धस्तदा वटतरोः सविधे निवासम् । कृत्वा स्थितः परिजनेन समन्वितोऽस्ति, सद्धर्मनीतिपथगामिजनानुयायी ॥ १३७ ॥ शीताऽतिबाधितवपुर्धनिकोपदेशा-त्प्रज्वालितस्तृणचयः समयज्ञभृत्यैः । तेजस्यनुत्तमविभे वितते समन्ता-दिग्ग्रस्तगाढतमसः समभूत्प्रणाशः ।। १३८ ॥ इम्यो | विलोक्य वटशाखिनि लम्बमानं, दुःखादितं कमपि तत्र जगाम सद्यः । कस्मादयं नरवरो मरणोचतोऽस्ति, चित्ते चमत्कृतिमधात्करुणाऽऽर्द्रचेताः॥१३० ॥ ततश्चिन्तयितुं लग्नः, परकार्यपरायणः । परोपकृतिहीनानां, मुधैव जन्म भूतले ॥१४॥ परोपकारः कर्त्तव्यः, प्राणैरपि धनैरपि । परोपकारजं पुण्यं, न स्यात्क्रतुशतैरपि ।। १४१॥ धनानि जीवितश्चैव, परार्थे प्राज्ञ उत्सृजेत् । तबिमिचो दरंत्यागो-विनाशे नियते सति ॥ १४२ ॥ " रविश्चन्द्रो घना वृक्षा-नदीगावश्च सज्जनाः। एते परोपकाराय, युगे देवेन निर्मिताः ॥१४३ ॥ तृणं चाऽहं वरं मन्ये, नरादनुपकारिणः । घासो भूत्वा पशून् पाति, भीरून् पाति रणाङ्गणे ॥ १४ ॥ परोपकृतिकैवन्ये, तोलयित्वा जनार्दनः । गुर्वीमुपकृति मत्वा, यवतारान् दशाग्रहीत् ॥१४॥
आत्मार्थ जीवलोकेऽस्मिन् , को न जीवति मानवः । परं परोपकारार्थ, यो जीवति स जीवति ।। १४६ ।। परोपकारशून्यस्य धिङ्मनुष्यस्य जीवितम् । जीवन्तु पशवस्तेषां, चर्माऽप्युपकरिष्यति ॥ १४७ ।। रागिणि नलिनी लक्ष्मी, दिवसे निदधाति दिनकरप्रभवाम् । अनपेक्षितगुणदोषः, परोपकारः सतां व्यसनम् ।। १४८ ॥ कृच्छानुवृत्तयोऽपि हि, परोपकारं त्यजन्ति न
For Private And Personlige Only