________________
दर्शनाकासा, कदा पूर्णा भविष्यति । इदानीं दर्शनं तस्य, मन्ये प्राणप्रदायकम् ॥१०१॥ देशान्तरगतः सोऽपि, सुखीदुःखीति को वदेत् । जानात्येको हि सर्वज्ञो-विदधातु स तच्छिवम् ॥ १०२॥ सुखीस्याद्यदि, सूनोऽस्मां-स्तत्र नेष्यति सोऽचिरात् । पूरयिष्यति चाऽस्माक-माशां शासनदेवता ॥१०३।। इत्याशापाशवद्धाऽऽत्मा, सा निःश्वासान्विमुञ्चति । देवसेनस्तदैवाह, सत्यमस्त्यम्ब ! ते वचः॥१०४॥ दैवान्नास्ति परो वीरो, मृर्खान्नास्ति परो रिपुः। संतोपानापरं सौख्यं, गुरोर्नास्त्य परः सुहृत् ॥ १०५॥ इत्थं मिथोऽमिलापेन, निर्जगाम निशा तयोः। तिग्मरश्मिः सुमेरोश्च, चूलिकामारुरोह वै॥१०६॥ इतस्तत्रस्थितो भीमो-भामिन्युक्तमिदं वचः। वज्रसारं समाकर्ण्य, विदीर्णहृदयोऽभवत् ॥१०७॥ इति चिन्तयति स्वान्ते, स कर्त्तव्यविमूढधीः । ब्रजामि सन्निधावेषां, निःस्वाकिं साम्प्रतं हहा ? ॥१०८॥ गमनेनाऽथवा कि मे, पार्श्वे नैव वराटिका। मामक दर्शनं तेषां, वृथा क्लेशविधायकम् ॥ १०६॥ प्रायतिं प्रेक्षमाणास्ते, जीविष्यन्ति मदाश्रयात् । निद्रव्योऽहं गतस्तत्र, किञ्चित्कतुं न शक्तिमान् ॥११॥ धिगस्तु मदीयं जन्म, धिङ्मे जीवितमप्यथ। ये ये कृता मयोद्योगा-स्ते सर्वे जज्ञिरे पृथा ॥१११॥ कर्मदोषांश्च किं वच्मि, वृथा संज्ञां धिगस्तु मे । अजागलस्तनस्येव, स्वपरार्थोज्झितस्य हा ॥११२। कीदृशी मे दशा दुष्ट-दैवेनाऽद्य विनिर्मिता । यत्प्रभावेण जातोऽस्मि, राहुग्रस्तो विर्यया ॥ ११३ ॥ शरणागतदीनार्चा-ननेकान् पालयन् पुरा । प्राशासं मण्डलं भूमेः, पूरितार्थिमनोरथः॥११४॥ सैवाऽहमधुनाऽशक्तः, कुटुम्बपरिपालने । जज्ञे दैवमहोचित्रं, यदन्तो नैव लक्ष्यते ।। ११५ ॥ पुत्रदारा इमे कष्टः, पीडयन्ते लुधयार्दिताः। भिक्षुका अपि नैतादू-गवस्थां शीलयन्त्यहो ॥११६ ।। पुत्ररत्नद्वयस्यैष-दुःखमारोऽति दुःसहः । शिरस्यापतितस्तस्या-महाशैल इवाऽधुना ॥११७॥ नास्त्यन्यो मे जनः कश्चि-यस्ता
For Private And Persone