________________
ShriMahavir JanArchanaKendra
Achah
agarsun Gyaan
मदर्थमपि वस्त्राणि, बहन्याभरणानि च । गृहीत्वा विपुलं द्रव्यं, त्वत्पिताऽध समेष्यति ॥६॥ त्रिभिर्विशेषकम् ॥ माशावशेन निर्वाह्यः, कियान कालोऽधुना सुत ? । किमुद्वेगविधानेन, वाञ्छितं फलमाप्यते ॥ ६६ ॥ रुदतामभुपातेन, नेत्रहानिः प्रजायते । भेषजादिप्रयोगस्तु, स्वमेऽपि नाऽनुभूयते ॥ ७० ॥ सम्बन्धिनोऽपि नो सन्ति, सहायस्य विधायिनः। कि करोमि पराधीना, विदेशे स्वामिनि स्थिते ॥७१ ।। इति मागिरं श्रुत्वा, देवसेनः स्वयं विदन् । सङ्कोच्याङ्गानि सर्वाणि, शीताों मौनमाश्रितः ॥ ७२ ॥ तावत् किश्चिद्वचो जन्पन् , केतुसेनः समुत्थितः । मातर्ममोदरे पीडा, जायते चुस्समुद्भवा ॥ ७३ ॥ अनं हि जीवनं नृणा, प्राणा अन्नसमाश्रिताः। विनाऽअनाऽधुना स्थातुं न शक्योऽस्मि प्रदेहि तत् ।। ७४ ॥ मनो मे स्थिरता नैति, बुभुचापीडिताऽऽत्मनः । चुन्याधिवाधिता नाड्य,-स्त्रुव्यन्ति सकला अपि ॥ ७५ ॥ चामात्रमपि चन्तुं, दुःखमेतन शक्यते । प्राणा गच्छन्ति मे मात-विधुरं किमतः परम् ॥ ७६ ॥ अन्नं नास्ति गृहे माता, कथं दास्यति भोजनम् । इत्युदीर्य रुरोदाऽऽशु, केतुसेनो बुद्धचितः ॥ ७७ ।। सुशीला सान्त्वयन्त्येनं, जगौ मधुरया गिरा । | प्रातः सूर्योदये जाते, वितरिष्यामि भोजनम् ॥ ७० ॥ शर्करां घृतस्पश्च, तण्डुलानुत्तमान्प्रगे। समानीय करिष्यामि,
तव तुष्टिं सुखावहाम् ॥७९॥ एकया भार्यया मेऽद्य, कथितं श्वस्तने दिने । भोज्याऽनं तव दास्यामि, सत्यमेव न संशयः ॥ ८०॥ कुमारः कथयामास, प्रतारयसि मां मुधा । ह्योऽपि त्वया विनिर्दिष्ट,-मेवमेव मृषा वचः ॥१॥ उवाच जननी सूनो ? किं करोमि विना धनम् । कार्येऽपि निर्मिते द्रव्यं, जना यच्छन्ति नो मम ॥२॥ वित्तेन सर्वकार्याणि, सिध्यन्ति न मनोरथैः । निद्रव्याण मनोभावा-उत्पबन्ते चयन्ति च ।। ८३॥ केनचित्कथितं वस्ते, दास्यामि भृतकं सुत । प्रात
For Private And Personlige Only