________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
पहः
श्री मीमसेन
सगे।
सततं सत्यं, वदन्ति विमलाशयाः। दीनानाथविनफ्रेषु, दयां कुर्वन्ति साधवः ॥५१॥ ततोऽवादीन्महेम्यस्तं, रेधूर्त !
याहि मद्गृहात् । किं गले पतास प्राय-ईदृशाः स्वार्थिनो जनाः ॥५२॥ निशम्यैतद्यथालापं, भीमसेनः क्रुघाकुलः। चरित्रे ।
भातङ्कितमनास्तस्मा-निःससारेति चिन्तयन् ।। ५३॥ इम्योऽयं दृश्यते धूर्तः, कूटकार्यविधायकः । विश्वासो वणिजां लोके, हिताय नैव जायते ॥५४॥ ततः कियद्भिर्दिवस-निशायां निजपचनम् । जगाम नृपतिर्भूय,-चिन्तयामासिवानिति ॥ ५५॥
कथं गृहे मया गम्यं, दर्शयामि मुखं कथम् । मार्या मां निर्धनं वीक्ष्य, प्राणहीनेव माविनी ॥४६॥ अर्जयित्वा धनं शीघ्र | धराधीशः समेष्यति । इत्युत्साहतया तेषां, गच्छन्त्यद्य दिनानि वै ।। ५७॥ गमिष्याम्यद्य चेत्ते मां, प्रक्ष्यन्ति धनमाहृतम् ।
किं त्वयेति तदा निःस्वो-दास्येऽहमुत्तरं कथम् ॥ ५८॥ निर्वितो निन्दनीयोऽहं, हतोऽस्मि कर्मवैरिणा । इति चिन्ता | समापनो, वाटके स समागमत् ॥५९|| कुट्या बहिः स्थितो ग्लाना, छिद्रेण स निरीक्षते । किं कुर्वन्तीति विज्ञातुं, स्त्रीपुत्रा| अत्र संस्थिताः॥६०॥ तृणशय्यामधिष्ठाय, बालको निद्रितावुभौ । धृतजीणाम्बरा राज्ञी, निर्विमहृदया भृशम् ।। ६१ ॥
दिगम्बरसमाकारा, वीडयाऽवनतानना । गृहीतपुत्रसानिध्या, तस्थौ सा दीनमानसा ॥६२ ॥ कम्पमानशरीरा सा, all निःश्वसन्ती मुहुर्मुहुः । स्मारं स्मारं निजं पाप,-मश्रुधारां विमुञ्चति ॥ ६३ ॥ देवसेनकुमारोऽथ, जगादेति स्वमातरम् ।
शीतं मां बाधते गाढं, हृदयं वेपते भृशम् ।। ६४ ॥ सुशीला तद्वचः श्रुत्त्वा, सान्त्वयन्त्यवदत्सुतम् । स्वल्पकालमिदं Hदुःखं, सोढव्यं भवता बलात् ॥ ६५ ॥ शय्यास्तरणवसनानि, तुलिकाः फेनसबिमाः। अनपरावांश्चैव, प्रचण्डातपदा
यिनः ॥६६॥ रत्नोन्नसितवस्त्राणि, हाराजुलीयकानि च। कौशेयानि महाया॑णि शिरोऽलङ्करणानि च ॥६७ ।।
॥३०॥
For Private And Personlige Only