________________
श्री
मा
मामसन
चरित्रे।
| यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये, दैवमेवातिरिच्यते ॥ १५ ॥ मनोरथान्करोत्युच्चै-र्जनो दैवहतानपि । सिमसिद्ध्योः समं कुर्या-देवं हि फलसाधनम् ।। १५६ ।। इत्थं देवमतिर्भूप,-श्चिन्तयन् दुःखितो भृशम् । निवासस्थानमासाद्य, कालचे व्यधत्त सः ॥ १५७॥
आसीच्छीसुखसागरः श्रुततपागच्छाम्बुजाऽहस्करः, मरिः श्रीयुतबुद्धिसागरविभुस्तत्पादसेवारतः । सूरीशाऽजितसागरेण सुधिया सों गतः पञ्चम,-स्तच्छिष्येण विनिर्मिते सुचरिते श्रीभीमसेनाभिधे ॥१५॥
इति श्रीभीमसेननृपचरित्रे पञ्चमः सर्गः समाप्तः ॥ ५ ॥
॥२८॥
॥ अथ षष्ठः सर्गः प्रारभ्यते ॥
__ यत्पादपङ्कजरजःपरिपीयमत्ता, देवेन्द्रमानवनरेन्द्रमधुव्रतालिः । विभ्राजतेस्म शिवशर्मनिमनभावा, श्रेयः समादिशतु वीरविभुः स शश्वत् ॥ १॥ अथागाद्धान्यविक्रेता, वणिक्कश्चित्तदन्तिके । उवाचेति कथं बन्धो , औदासीन्यं त्वयाऽऽधितम् ॥ २॥ नृपेणाऽमाणि भोः श्रेष्ठिन् ? किं वदाम्यधुना तव । अत्रत्यराजसेवार्थ, दूरादेवागतोऽस्म्यहम् ॥३॥ षण्मासान्ते च मे भावि, दर्शनं भूपतेरहो । इति ज्ञात्वा विषयोऽस्मि, लचम्रष्टो ! यथा भटः॥४॥ श्रेष्ठधुवाच महाभाग !
For Private And Personale Only