________________
मन्दभाग्यइवाशक्तो-नृपस्तत्रैव तस्थिवान् ॥१३८॥ दैवमुल्लक्क्य यत्कार्य, क्रियते फलवन तत् । सरोम्भश्चातकेनातं, मलरन्ध्रण गच्छति ॥ १३९ ।। भाग्यवन्तं प्रस्येथा-मा शूरं मा च पण्डितम् । शूराश्च कृतविद्याश्च, बने सीदन्ति पाण्डवाः॥ १४० ॥ न केवलं मनुष्येषु, दैवं देवेष्वपि प्रभुः । सति मित्रे धनाध्यचे, चर्मप्रावरणो हरः ॥१४१॥ सच्छिद्रो मध्यकुटिलः, कर्णः स्वर्णस्य भाजनम् । धिग्दैवं निर्मलं चक्षुः, पात्रं कजलभस्मनः ॥ १४२ ॥ भगवन्तौ जगन्नेत्रे, सूर्याचन्द्रमसावपि । पश्य गच्छत एवास्तं, नियतिः केन लक्थते ॥ १४३ ॥ किं करोति नरः प्राज्ञः, शूरोवाऽप्यथ पण्डितः। देवं यस्य फलान्वेषि, करोति विफलाः क्रियाः ॥ १४४ ॥ देवे विमुखता याते, न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या, भ्राता वाऽथ सहोदरः ॥ १४५॥ पिबन्ति मधुपबेषु, भृङ्गाः केसरधूसराः। हंसाः शैवालमश्नन्ति, धिग्दैवमसमञ्जसम् ।। १४६ ॥ करोतु नामनीतिज्ञो-व्यवसायमितस्ततः । फलं पुनस्तदेवास्य, यद्विधर्मनसि स्थितम् ॥ १४७ ॥ दैवं फलति सर्वत्र, न विद्या न च पौरुषम् । समुद्रमथनाल्लेभे, हरिलक्ष्मी हरो विषम् ॥१४८॥ दैवमेव फलं दत्ते, शुभं वाप्यशुभं जने । पाषाणस्य कुतो योगा-देवत्वमजनि चितौ ॥ १४९ ॥ सहस्रधेनुष्वपि बालवत्सः, स्वमातरं विन्दति वा यथैव । तथैव पूर्वार्जितमेवकर्म, कर्तारमाप्नोति शुभाशुभं द्राक् ॥ १५॥ अप्रेर्यमाणानि यथा, पुष्पाणि च फलानि च । स्वकालं | नातिवर्त्तन्ते, तथा कर्म पुराकृतम् ॥ १५१॥ विपत्तौ किं विषादेन, संपत्ती हर्षणेन किम् । भवितव्यं भवत्येव, कर्मणामीदृशी गतिः॥१५२॥ हरिणाऽपि हरेणापि, ब्रह्मणा त्रिदशैरपि । ललाटलिखिता रेखा, न शक्या परिमार्जितुम् ॥१५३ ॥ सुहृदो ज्ञातयः पुत्रा-भ्रातरः पितरावपि । नानुस्मरन्ति स्वजनं, यस्य दैवमदक्षिणम् ॥ १५४ ॥ अचिन्तितानि दुःखानि,
For Private And Personale Only