________________
ShriMahisvirJanArachanaKendra
Achanashn
a garson Gyaman
आ
भीमसेनपरित्रे।
॥२७॥
अङ्कमारोप्य तौ पुत्री, हृदयेनाऽऽलिलिङ्ग च ॥१२३।। चुम्बयित्वा तयोरास्य, न गमिष्यामि कुत्रचित् । इति वादिनि राजेन्दौ, सूर्योऽप्यस्तं समागमत् ॥ १२४॥ निशीथिन्यां कुमारौ द्वौ, गाढनिद्रावशं गतौ। निम्ससार तदा गेहा-दत्तशिवप्रियो नृपः ॥ १२५ ॥ गते पत्यौ सुशीला तु, निःश्वसन्ती स्थिता गृहे । कार्यार्थिमिर्हि किं दुःखं, न लोकेष्वनुभूयते ॥१२६।। ततः क्रमेण भीमोऽपि, लङ्घयन्प्रामपचनम् । फलानि मचयन्मार्गे, चचाल भयवर्जितः ॥१२७॥ निशायां धर्मशालायां, देवसबनि वा शुमे । वासंकृत्वा पुनः प्रात-जंगामाग्रे नराधिपः ॥ १२८ ॥ कष्टानि सइमानः स,-घृतधैर्यवरासिकः । चतुर्थदिवसे प्राप, प्रतिष्ठानपुरं वरम् ॥ १२९ ॥ प्रच्छतिस्म ततो भीमः, कश्चिद्धनरं स्थितम् । वैदेशिकोऽहमायातो-राजसेवाचिकीर्षया ॥ १३० ॥ नृपस्य मीलनोपाय, बेहि मां करुणानिधे। भीमसेनं ततोऽवादीव, पुरुषः परकार्यकृत् ॥ १३१ ॥ ह्यस्त्वं किमागतो नाज़, जामाता नृपते १ पुरे । प्रजानिरीक्षणकृते, ससैन्यो निःसृतोबहिः ।। १३२ ॥ तस्मिन्नेव चणे राजा, किङ्करं रचति स्वयम् । तस्मादिदानीं त्वत्कार्य, न भविष्यति पूरुष ॥ १३३ ॥ किन्तु पाण्मासिकस्तस्य, बहिरा गमनावधिः । गतायामथ षण्मास्यां, निःसरिष्यति भूपतिः ॥ १३४ ॥ तावदत्र स्थितिं पान्थ ? कुरुष्व सुखवाञ्छया । नरवाक्यमिदं श्रुत्वा, विषादं भूपतिर्ययौ ॥ १३५ ॥ अहो ? देवाधीनं, जगति सुखदुःखाऽभिपतनं, न जाने कीदृङ्मे, व्यसनबहुलं कर्म विततम् । विधे ! क्रूरस्त्वं किं, मम हृदयमेदं न कुरुषे, शनैः स्वल्पच्छेदा-दरमतनुमेदस्त नुमताम् ॥१३६ ॥ पुरा मे दुष्प्राप्य, मनुजजनुराप्तं विधिवशात् , ततो भुक्तं राज्यं, सकलनयमार्गोऽप्यनुसृतः । इदानीं निःपारं, व्यसनमनुभूतं बत मया, भवित्री निर्मुक्ति,-विषमतरदुःखान्मम कदा ॥ १३७ ॥ आत्मनः कर्मदोषांच, निन्दन वाढच निम्बसन् ।
॥२७॥
For Private And Personlige Only