________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
सर्ग
मीनसेनचरित्रे।
॥ २६ ॥
दुःखकारणम् ॥३२॥ भूपतिर्विनयात्प्रोचे, मूलादारभ्य दारुणाम् । स्वकीयां विपदं श्रोतू-रोमाश्चभरहेतुकाम् ॥ ९३ ॥ | नरः सोऽपि समाकर्ण्य, तदुक्तिं चित्तदाहिनीम् । तस्मिन्पापरो जन्जे, दयावन्तो हि सज्जनाः ॥१४॥ चिन्तां किमर्थमाधत्से, चिन्ता चित्तविनाशिनी । प्राणिनं दहते साप्ता, संत्याज्या सुभग ? त्वया ॥ ४५ ॥ पुनः सोऽप्यवदद्भपं, मदुक्तं वचनं शृणु। समस्ति नगरं पूर-प्रतिष्ठानेतिनामकम् ॥६६॥ कोटिभिः कोटिसंपत्ति-धारिमीराजितं जनैः। कलाकौशल्यविभूरिविद्वजनसमाश्रितम् ॥ १७ ॥ तत्रास्त्यरिञ्जयो भूपः, शास्ति लोकानयाश्रितः। जामाता तस्य नीतिनो-जितशत्रुश्च राजते ॥ १८॥ षण्मास्या अन्तरे तो च, प्रजालोकनहेतवे । क्रमेण सेनया साकं, बहिनिष्कामतः स्वयम् ॥ १९ ॥ तदानीं तत्र संयातान्, दुःखितान्दीनतागतान् । यान्यान्कर्मकरानाजा, वीचते तान्स्वसन्निधौ ॥ १०० ॥ सर्वात्रवति निर्वाधं, प्रतिमासच रूप्यकान् । द्वात्रिंशदर्पयत्येव, परकाविचक्षणः ॥१.१॥ युग्मम् ॥ जामाता रूप्यकाणां तु, चतुःषष्टिं प्रयच्छति । एतनगरवास्तव्याः, सुखिनः सन्ति देहिनः ॥ १०२।। इतस्तनगरं दूरे, वत्स द्वादशयोजनम् । वर्तते व्यसनाऽऽर्तस्य, तव सिद्धिविधायकम् ॥ १०३ ॥ त्यक्तसर्वविकल्पस्त्वं, व्रज तत्र निराकुलः । श्रुत्वेति वचनं तस्य, नृपतिः स्वाऽऽलयं ययौ ॥१०४॥ वृत्तान्तं सर्वमाचख्यौ, पुरुषोदितमुत्सुकः । निशम्यैतत्सुशीलाऽपि, जहर्षाऽऽत्महितैषिणी ॥१०॥ बभाषे भीमसेनोऽथ, प्रिये ! गच्छामि साम्प्रतम् । तत्र सेवा करिष्यामि, नृपस्यैतस्य मावत: ॥१०६ ।। यत्नेन मतिमानर्थ, साधयेदेशकालवित् । मासं स्थित्वा धनं लात्वाऽगमिष्याम्यत्र वै पुनः ॥ १०७ ॥ यो न सञ्चरते देशान् , यो न सेवेत पण्डितान् । तस्य संकुचिता बुद्धि,-घृतबिन्दुरिवाऽम्भसि ॥ १०८ ॥ यस्तु सञ्चरते देशान् , यस्तु सेवेत पण्डितान् ।
॥२६॥
For Private And Personlige Only