________________
ShriMahavir JanArchanaKendra
Pathan Gym
चेद्दत्से, मासिकं मे विवर्द्धय । जीविकामात्रलामेन, सदा सन्तोषवानहम् ॥ ७७ ॥ सन्तोषपीयूषसुप्तचेतसा, शान्तात्मना यत्सुखमस्ति देहिनाम् । कुतस्तरां तद्धनलुब्धमानसाः, परिभ्रमन्तः कलयन्ति सर्वतः ॥ ७८ ॥ यत्नेन सततं कार्य, करिष्यामि तव प्रभो । निशम्यैतद्वचस्तस्य, श्रेष्ठथदादूप्यकद्वयम् ॥ ७९ ॥ तेन वित्तेन भाण्डादि-वस्तूनि क्रीतवान्नृपः। कतिचिदिवसा जग्मु,-स्तद्रव्यञ्च चयं गतम् ॥ ८॥ पुनरूचे नृपेणेम्यो-भृतकं मे विवर्द्धय । त्वया दत्तं तु यद्रव्यं, व्ययितं नास्ति किञ्चन ।। ८१॥ चीणे द्रव्येऽधुना कश्चि,-दुपायो नैव विद्यते । अर्थाधीनो जनो लोके, स्मशानमपि सेवते ॥ ८२॥ यतः-वयोवृद्धास्तपोवृद्धा, ये च वृद्धा बहुश्रुताः । सर्वे ते धनवृद्धानां, द्वारि तिष्ठन्ति किङ्कराः ॥३॥ भोजनस्यापि मे चिन्ता, गर्जति महती हहा । लक्ष्मीपते ? कृपां कृत्वा, देहि मेऽद्याऽधिकं धनम् ॥ ८४ ॥ इत्युक्त्वा विरते तस्मि-निम्यो वचनमब्रवीत् । रूप्यकद्वयतो नैवा-धिकं दास्यामि किङ्कर ? ॥ ८५ ॥ अधिकं यदि चाऽन्यत्र, मिलति व्रजत द्रुतम् । वणिजः कृपयाश्चर्म-खण्डं ददति नोधनम् ॥ ८६ ॥ इति श्रेष्ठिमुखाद्वाक्यं, निशम्य भीमभूपतिः। कृपण स्वाश्रयः श्रेया-नैवेति निश्चिकाय सः॥८७॥" अयश्चणकचर्वणं, फणिफणामणेः कर्षणं, करेण गिरितोलनं, जलनिधेः पदालङ्घनम् । प्रसुप्तहरिबोधनं, निशितखड्गसंस्पर्शनं, कदाचिदखिलं भवे,-बच शठाद्धनस्यार्जनम् ॥ ८ ॥न दातुं नोपभोक्तुञ्च, शक्नोति कृपणः श्रियम् । किन्तु स्पृशति हस्तेन, नपुंसक इव स्त्रियम् ॥८६॥ तथाच-वरं विभवहीनेन, प्राणैः संतर्पितोज्नलः । नोपचारपरिभ्रष्टा, कृपणः प्रार्थितो जनः॥१०॥ विचिन्तयन्निति स्वान्ते, भूरिदुःखेन पीडितः। काव्यमूढधीस्तस्थौ, नृपतिर्दीनमानसः ॥ ९१ ।। तदानीं मानवः कश्चि-दाजगाम तदन्तिके। उद्विग्नमानसं मीम, पप्रच्छ
For Private And Personlige Only