________________
सुशीलया मार्जयतिस्म नित्यम् ॥१४३।। जलस्य माण्डं विपुलं प्रदाय, प्रामाहितरे तडागे । प्रैषीत्समानेतुमपः सुशीला, श्रेठ्यङ्गना लन्धगृहाधिकारा ॥ १४४ ॥ राज्ञी महाकष्टवशंवदाऽपि, बृहजलं पात्रमुवाह मूर्जा । जलाभिपातासमस्तवासाः, प्रकम्पमानाऽवयवा रुरोद ।। १४५ ॥ भूमौ घटस्तच्छिरसःकदाचि-विपत्य भग्नोयदि जायते सा । क्रुद्धाभृशं ताडयतिस्म तीक्ष्णा-चराऽऽशुगैर्दुष्टमनाश्च राज्ञीम् ॥१४६॥ क्वचित्प्रमादाद्यदिवालको तौ, स्वकार्यतो भित्रमती भवेताम् । चोकुप्यतेऽनर्थवचोवदन्ती, दुनोति सा तज्जननी सुशीलाम् ॥ १४७ ॥ पात्राणि सर्वाणि सदा प्रमाटिं, तथाऽपि नैतानि विशुद्धिमाजि । पृथैवदत्तानि तयेति कृत्वा, करोति शुद्धानि पुनः सुशीला ॥ १४८ ।। प्रमार्जनव्यग्रतया करोऽस्याः, स्थान्यग्रसंघर्षणतः चतोऽभूत् । विदीर्णवस्वाञ्चलबन्धनेन, तमेव हस्तश्च ररत खिन्ना ॥ १४९ ॥ पात्राएयशुद्धानि विलोक्य भद्रा, रण्डे ! कथं नैवकरोषि कर्म । शुद्धं स्वकीयोदरपूर्तिमात्रं, जानासि कर्तुं स्फुटमित्यवोचत् ॥ १५० ॥ वाक्यानि भद्रागादतानि तानि, श्रुत्वाऽऽपि संघाय महाचमाऽत्रम् । कालं विनिन्ये नरनाथमार्या, न चीयते कर्म विना हि मोगम् ॥ १५१ ॥
आसीच्छीसुखसागरःश्रुततपागच्छाऽम्बरोष्णप्रमा,
सरिः श्रीयुतबुद्धिसागरविभुस्तत्पादसेवारतः। संदृन्धेजितसागरेण चरिते सूरीश्वरेणागम
तच्छिम्येय चतुर्थसर्ग उचितः श्रीभीमसेनाभिधे ॥ १५२ ॥ इतिश्री भीमसेननृपचरित्रे चतुर्थः सर्गः समाप्तः ॥ ४॥
For PvAnd Personale Only