________________
Achanasha
G
चतुर्व
॥२१॥
निरीचशं नराणाम् ॥१०६॥ अपहरति महत्त्वं प्रार्थना किं न जाने, जनयति गुरुलज्जामित्यहं किं न वेशि । तदपि बद वदान्य त्वं सदा प्रत्यहं मां, जठरपीठरवर्तीवहिर करोति ॥ १०७॥ कष्टं खलु मूर्खत्वं, कष्टं खलु यौवनेऽपि दारिद्यम् । कष्टादपि कष्टतरं, परगृहवासः परान्नश्च ।। १०८ ॥ गङ्गातरङ्गजलशीकरशीतलानि, विद्याधराध्युषितचारुशिलातलानि । स्थानानि किं हिमवतः प्रलयंगतानि, यत्साऽवमानपरपिण्डरतो मनुष्यः ॥ १०६ ॥ " अभिमतमहामानग्रन्धिप्रभेदपटीयसी, गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका । विपुलविलसनजावलीवितानकुठारिका, जठरपिठरी दुष्पूरेयं करोति विडम्बनाम् ॥११० ॥ नासत्यभाषालपनं त्यजन्ति, विश्वासिनं प्रन्ति च दुष्टभावाः। न कोऽपिबन्धुनच मित्रवर्गो-दुष्टोदरार्थ रचयन्ति पापम् ॥ १११ ॥ अयं हि देहो गुणधाम कीर्तितः, क्रियात्मको ज्ञानमयश्चदेहिनः । प्रकीर्णते सैव विपत्तिभाजनं, तिरस्कृतेः स्थानमहोमहस्विभिः ।। ११२ ॥ जीवन्ति वाणिज्यतयानकेचि-दन्येऽपि कृष्यादिधनप्रयासैः। तच्चापि सर्व जठरैकालं, दुष्पूरमेतत्सततं प्रदिष्टम् ॥ ११३ ।। सेवां प्रकुर्वन्ति तदर्थमस्मि-केचिजनाः सेव्यधियाऽधमानाम् । दुष्पूरमेतजठरं हि किं कि, तत्पूर्तये के न समाचरन्ति ॥ ११४ ॥ धनेनहीनाः किलवञ्चयन्ति, मुष्णन्ति पान्थान्त्रजतोऽटवीषु । निधानगं यच्चहरन्ति चौराः, प्रपूर्यते तज्जठरं तथाऽपिनो ॥ ११५ ॥ "दारिद्याड़ियमेति होपरिगतः सत्वात्परिभ्रश्यते, निःसत्त्वः परिभूयते परिभवान्निर्वेदमापद्यते । निर्विण्णःशुचमेति शोकनिहतो बुझ्या परित्यज्यते, निर्बुद्धिः क्षयमेत्यहोनिघनता सर्वापदामास्पदम् ।। ११६ ।। वस्त्रं चर्मविभूषयं नरशिरो भस्माङ्गरागः सदा, गौरेकः स च लागलेवकुशवः संपचिरेतावनी । ईशस्ये
॥२१॥
For Private And Personale Only