________________
Shri Mahavir Jain Aradhana Kendra
*****++*O*****03+04.03+++
www.kobatirth.org
जन्मन्यपि नो विधास्ये । यदीदृशोऽस्मीति मम प्रनष्टा, कालत्रयान्तः स्वभवत्रयीश ? ॥ ८४ ॥ किंवा वृथाऽहं कुमतिर्ब्रवीमि पूज्य १ स्वदग्रे निजदुश्चरित्रम् । यतः समालो कितसर्वभावे, त्वयिस्थितेऽलं मम जल्पनेन ॥ ६५ ॥ दीनानां परिपालकस्त्वदपरोनो विद्यते तीर्थक-न्मत्तोऽन्यः करुणाईयो न तदपि ह्येतां न याचे श्रियम् । किन्त्वेकं जगदीश ! केवलमहोसत्तच्चरत्नं शुभं, सर्वप्रार्थितमङ्गलैकव सति श्रेयः पदं मार्गये ॥ ६६ ॥ संस्तुत्य सैवं जिनराजमूर्ति, त्रिलोकपूज्यां भवरोगहन्त्रीम् । ययौ स्वमनुप्रमदान्तिकं द्राक्, स्वकार्यसंपादनजातबुद्धिः ॥ ९७ ॥ व्रज्याम्यहं पत्तनमत्रतिष्ठत, यूयं स्वधर्मेण शुभं भविष्यति । चणेन कार्य प्रतिपाद्य साम्प्रतं, विलोकनीयोऽत्र भवद्भिरागतः ॥ ६८ ॥ उक्त्वेति तान्यत्र धनाढ्यलोकाः, क्रीणन्ति वस्तूनि बहूनि वीध्याम् । तत्रैव गत्वैकमहेभ्यइट्टे, तस्थौ प्रजापालक भीमसेनः ।। ९९ ।। तदापणं सर्वजनाः समेत्य चणेन वस्तूनि समान्यगृह्णन् । जातेऽर्थलामे महति प्रजेशं, व्यलोकयच्छ्रेष्ठिवरोनिपणम् ॥ १०० ॥ मन्येऽस्त्ययं कोऽपि महाजनोऽत्र, कथञ्चिदापत्तिगतः समेतः । श्यामायमानाऽऽनन कान्तिरेष-प्रतीयते व्यग्रमनाः प्रकामम् ॥ १०१ ॥ अवोचदेनं नगरं त्वदीयं, किमस्ति कस्मादिह संगतोऽसि । दुःकर्मणा चत्रकुलोद्भवोऽहं भ्रमामि दुष्टोदरपूरणाय ।। १०२ ।। अवाप्तसद्राज्य सुखप्रभावोमहाजनैः स्तुत्यपदं प्रयातः । योराजते भ्राजितसर्वलोकः, स एव शश्वत्सुकुतैकपात्रम् ॥ १०३ ॥ यजीव्यते चणमपि प्रथितं मनुष्यै- विज्ञानशौर्यविभवार्यगुणैः समेतम् । तन्नामजीवितमिह प्रवदन्ति विज्ञाः, काकोऽपि जीवति चिरश्च बलिश्चभुङ्क्ते ॥ १०४ ॥ हितकुहितविचारमूढबुद्धे - र्जिनसमयैर्बहुधा तिरस्कृतस्य । उदरभरणमात्र केवलेच्छोः, पुरुषपशोच पशोथकोविशेषः ॥ १०५ ॥ इयमुदरदरी दुरन्तपूरा, यदि न भवेदभिमानभङ्गभूमिः । क्षणमपि न सहेतमानवोऽत्र, कुटिलकटाक्ष
For Private And Personal Use Only
Acharya Shri Kalassagarsun Gyanmandir
M+++++***