________________
तृतीयः सर्गः।
भीमसेन
चरित्रम् ।
पश्चादरण्यं विजनं समेष्यति ॥ १३३ ॥ उक्त्वेति तद्द्वारि विमुच्य शीला-मसापीडाऽश्रुमुखी विषण्णा । व्याघुय्य सुप्वाप निजासने सा, भयातुराणां हि कथं सुखंस्यात् ॥ १३४ ॥ दास्यां गतायां सकुटुम्बमीमः, क्रमेण निस्तीर्य समा सुरक्षाम् । प्रपेदिवान्सिहगजेन्द्रयूथै-फ्लैश्चकीर्ण विपिनं सुघोरम् ।।१३५ ॥ चलगिरेतैर्भयदायिनी दरी, ततः प्रपेदे विपुला तमोवृता । यस्यां विभेदो न दिवानिशाकृतः, सदोदितोलूकरवा प्रतीयते ॥ १३६ ॥ इतस्ततोभीमनृपो गुहान्तः, स्खलत्क्रमोभीतमनाश्चचाल । स्फुटन्ति तेषां बत मस्तकानि, गर्मोनिपातैश्च परस्परेषाम् ॥ १३७ ।। मरुद्भिरत्युत्कटशीतलैस्ते, चकम्पिरे पत्रवदचमाङ्गाः । पञ्चाननध्वानमशक्नुवन्तः, मोढुं समन्ताद्भयमादधानम् ।। १३८ ॥ प्रसुसुवुः सर्वदिशासु निर्झराअतीवघोरध्वनिमादधानाः । घोरातिधोरामतिदुःसहां दरी-मुल्लंघ्य तत्पारमवापुराrः ।। १३९ ॥ शून्येवने कण्टकविद्धपादा-रोमाश्चितास्ते स्थलमुच्चनीचम् । प्रासाद्य विम्युहृदयेषु दुःखं, स्मर्तुं न शक्यं किमुतद्विसोढुम् ॥ १४० ॥ मिथोमिल
मिरुहोरुशाखा-वृन्दैर्निरुद्धाऽम्बकसत्प्रचाराः । पतन्ति गर्वासु यथा कथञ्चि-दुत्थाय गच्छन्ति जवेन भूयः ॥ १४१ ॥ कुमारको क्वापि वनेचरन्ती, सोढुं न शक्यौ व्यसनं भयात्तौं । पूचक्रतुर्दीनमुखौ नरेशः, प्रसान्त्वयंस्तौ शनकैश्चचाल ॥ १४२ ॥ अवामुखेनैव गतिविधेया, वसन्ति दुष्टा विपिनेवचौराः । गर्जन्ति सिंहादिगण्याश्चहिंस्रा-मौनं ततो ग्राह्यमिदेव सर्वैः ॥ १४३ ॥ वनेचराश्चेत्समदाः समेष्य-न्स्युपद्रवो भूरितरोऽत्रमावी । प्राणाऽपहारे बत जायमाने, वृथैवलोके स्वजनो गृहादि ॥ १४४ ॥ निगद्य वाणीमिति भूधरोऽसा-वाश्चासयामास कलत्रपुत्रान् । जीर्णाऽशुका बभ्रमुरिद्धचिन्ताः, सर्वेऽपि संमीन्य वनस्थलीषु ॥ १४५ ॥ इतस्ततः चीणवला भ्रमन्तो-व्यलोकयंस्ते लघुपर्णशालाम् । शून्यां ततो गन्तुमनन्पमावाः,
For Private And Persone
ly