________________
तृतीयः सर्गः।
भीमसेनचरित्रम् ।
॥१४॥
॥ १०७॥ किं नाममात्रेण भवन्ति भूपाः, सवप्रधानाः प्रथितास्त एव । राजाधिराजोऽस्म्यहमेव कान्ते !, लमस्व शान्ति कुरु मा विषादम् ॥ १०८॥ ततो बभाषे सुरसुन्दरी प्रियं, नैतादृशं राज्यपदं विभाव्यते । स्वमानसे मानविधानतः किम, प्रतीयसे त्वं खलु कर्मकारकः ॥ १०९ ॥ अहर्दिवं भीमनरेश्वरोऽसौं, स्वर्गाधिराजस्व सुखंभुनक्ति । नियोज्य चिन्ताभरमुग्रबुद्धि-स्त्वयि प्रभूतेन विकर्मणाऽलम् ॥ ११० ॥ यदा भवान् राजपदे स्थितःस्या-निष्कास्य तं जन्मफलं हि मन्ये । निपीय वाक्यं प्रिययोदितं स-प्रातहीध्ये पदमित्युवाच ॥ १११॥ काष्ठासु सर्वासु मदीयशासनं, भविष्यतीनांशुवितानवत्सदा । दैवात्कदाचिन भविष्यतीदृशं, तदा हनिष्यामि नृपं सभार्यकम् ॥ ११२ ॥ एवं कृते सर्वमनोरथास्ते, सेत्स्यन्ति देव्यत्र न संशयोऽस्ति । शूराश्च सन्त्येव न भूतलेऽस्मि-न्योद्धं मया साईमिदं विभाव्यम् ॥ ११३ ॥ राज्याय देहोऽयमनुप्रपन्नः, पित्रादिकं नैव तृणाय मन्ये । विवादमेतञ्च तयोः सुनन्दा, शुश्राव सर्व रहसि स्थिता सा ॥ ११४ ॥ प्रकम्पमानाsवयवा ततोऽगम-ड्रीमस्य सौधं त्वरिता स्खलत्पदा । विबोध्य तं नैतिककार्यकोविदा, न्यवेदयचचघुबन्धुचेष्टितम् ॥११॥ विज्ञाय वार्ता स्वविरोधगर्मा, सजोऽभवत्प्राणरिरचुभीमः । भ्राताऽप्यहो मे विपरीतबुद्धिः, कर्माऽनुबद्धा हि भवन्ति लोकाः ॥११६ ॥ प्रधानवर्गाः सुहृदोऽभवन्मे, किं तैरिदानी विपरीतदैवे । ब्रजामि केनापि पथाऽतिगुप्तो,-जीवनरो भद्रशतानि पश्येत् ॥ ११७ ॥ विचिन्त्य चैवं निजभक्तमत-माकारयामास नृपः शुचाः । समादिदेशेति तमागतं स, सजीकुरुष्वातिजवं रथं द्राग् ॥ ११८ ।। भीमस्ततो रत्नहिरण्यराशि,-शस्त्राणि संगृह्य विहाय राज्यम् । सजीभवत्पुत्रकलत्रवर्गः, समाययो द्वारसमीपमाशु ॥११६॥ प्रियं जगौ स्वं सुरसुन्दरी चेत् , वृत्तान्तमज्ञास्यदिदं स भीमः । पलाय्य राज्यं पुनरग्रहीष्य-त्सहाय
H
॥१४॥
For Private And Persone
Only