________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
तिः कुपिता नरेशं, विलोक्यताश्चेत्पतिता गृहान्तः । विचित्रवाक्यं स निशम्य तस्याः, संभावयामास विरुद्धवादम् ॥९५ ॥ अनेकधा चिन्तनमादधानो-यत्राऽस्ति सा तत्र जगाम भूपः । गाढान्धकाराऽवृतभूमिसंस्थां, शोकाग्निदग्धामिव तामपश्यत् ।। ९६ ॥ उवाच तां सोऽपिविनम्रचेताः, कः शोकहेतुर्मयि विद्यमाने । जगाद सा मे मरणं प्रपन्न-मिति प्रजानीहि विशालबुद्धे ॥ ९७ ॥ तत्कारणं भूप! समाहितस्त्वं, शृणुष्व मत्तः परदास्यकारिन् । विलोकमानोऽपि निजोरु दोष, न पश्यति बुद्रमतिप्रधानः ॥ १८॥ देवी मया प्रार्थ्यत पूर्वमित्थं, त्वद्राज्यहेतोनृपते ! दयालुः । संवत्सरे द्वादशके पतिमें, राज्याधिपो मे मृतिरन्यथाऽस्तु || १६ || स एव कालः समुपस्थितस्ते, देव्यावचः स्यानकदाप्यसत्यम् , । भद्यावधि त्वद्वचनाऽनुबद्धा, दुःखाऽतिमारं प्रचुरं विषहे ॥१०॥ त्वं राज्ययोग्योऽसि तथाप्यहो किं, दासस्यकार्य विदधासि मर्तः। तस्मादल मे भुवि जीवितेन, जीवन्ति किं नो खलु सारमेयाः ।। १०१ ॥ विज्ञाततद्गीहरिषेणभूपः, क्रोधातुरां तां शमयाञ्चकार । न दुःखलेशोपि विचिन्तनीयो-हृदित्वयेतो मयि विद्यमाने ॥ १०२॥ इतीरयित्वा गिरमत्युदारां, प्रियासमेतो गृहमागमत्सः । ततो वजन्तीं पुनराग्रहेण, निवेश्य तत्रैव नृपोऽवदत्ताम् ॥ १०३ ॥ करोमि राज्यं मम शासनं सदा, प्रजाः शिरोभिदधते नजं यथा । नकोऽपिजानाति च भीमभूपति, विदन्ति मां राज्यधरं जनाः समे ॥१०४॥ कार्यश्चकिश्चिन्मदनुज्ञयैव, कर्तुं चमो भूपतिभीमसेनः । नृपाऽऽसनस्थोऽपि न राज्यकर्ता, ज्ञात्वेति चिन्तां जहि भामिनि ! त्वम् ॥१०॥ त्वमेव मे जीवितमङ्गनेऽसि, कथं विधत्से शुचमप्रमेयाम् । न न्यूनता काऽपि तवास्तिलोके, सर्वोऽपिमद्भक्तिपरायणोऽस्ति ॥१०६।। तवेप्सितं पूरयितुं प्रियेह, दिगन्तविश्रान्तयशाः समर्थः । दीनं न वाच्यं वचनं त्वयैवं, विभाव्यतां राज्यमिदं मदीयम्
For Private And Personlige Only