________________
श्री
भीमसेन
चरित्रम्
॥१०॥
शिवदं स्तवीमि ॥ १॥ अथाऽज्यदा जङ्गमतीर्थमुख्य-श्चन्द्रप्रभाभिख्यमुनिर्धरित्रीम् । पवित्रयनराजगृहं जगाम, तत्रस्थितानां चत भूरिभाग्यात् ॥२॥ समागतं तं वनवाटिकाया-मुद्यानपालः सदयं प्रणम्य । हर्षेण तूर्ण गुणसेनभूप-मवाप्य वर्धापनिकामवादीत् ॥३॥ दूतोक्तसद्वाक्यसुधाप्रसेका-द्रोमाञ्चिताङ्गोत्कटमोदशाली। दानेन सञ्चूर्ण्य तदीयदौःस्थ्य, नन्तुं गुरुं निर्गतवान् नरेशः ॥४॥ गत्वा गुरोरन्तिकमल्पसैन्यः, पञ्चाङ्गपातेन ननाम भूपः । धर्माऽऽशिषप्रोच्य मुनिः स तस्मै, सद्देशना प्रारमतेस्म धाम् ॥ ५॥ धर्मः सदामङ्गलवनिमेघो-धर्मः सदाचिन्तितकल्पवृक्षः। धर्मः सदा पापतरुद्विपेन्द्रो-धर्मः सदोा सुकृतैकहेतुः ॥ ६ ॥ धर्मेण सिध्यन्ति निजाभिलाषा-धर्मेण कष्टानि शमं प्रयान्ति । धर्मेण देवाश्च वशीभवन्ति, धर्मेण कर्माणि लयं व्रजन्ति ।। ७ ॥ दानेषु सर्वेष्वभयप्रदानं, गुणेषु सर्वेषु शमः प्रधानः । पूज्येषु सर्वेषु गुरुः प्रधाना, साध्येषु सर्वेषु तथैव धर्मः ॥ ॥ धर्माऽमृतं येन सकृत्रिपीतं, संपादितं तेन समस्तकार्यम् । दुग्धोपलम्भे सति सर्पिषोहि, दध्यादिलाभः सुलभो नराणाम् ॥६॥ दुःप्राप्यमासाद्य मनुष्यजन्म, यो यत्नतो नैव तनोति धर्मम् । मूढः स. दुःखाऽतिभरण लब्धं, चिन्तामणि प्रोज्झति बारिराशौ ॥१०॥ धर्म दयामृलमवेहि राजन् ! विना दयां तं विफलं वदन्ति । विनायकं सैन्यमिव प्रचण्ड, दयैव तस्माद्गदिता प्रधाना ॥११॥ गुरुं विना नैव विचक्षणोऽपि, जानाति तच्च गुणवारिराशिम् । कर्णान्तविश्रान्तविलोचनोऽपि, दीपं विना पश्यति नान्धकारे ॥ १२ ॥ सन्मार्गसन्दर्शनदीपिकेव, पोतायमानेव भवाब्धिमध्ये । शिवार्थिनां दत्तकरेवसाचा-च्छुद्धा विधेया स्वगुरौ विशुद्धा ॥ १३ ॥ श्रुत्वेति रम्यं सुगुरूपदेशं, सम्यक्त्वसंपतिनिधानहेतुम् । निवर्चकं कर्ममहारिपूर्णा, भूपः स्वयं धर्मपरो बभूव ॥ १४ ॥ संप्राप्तसम्यक्त्वगुणौ कुमारी,
॥
१
For
And Persone
ly