________________
Shri Mahavir Jain Aradhana Kendra
********++******+KUR
www.kobatirth.org
वैवाहिकमहोत्सवे । निष्पन्ने पौरलोकानां, प्रमोदोऽभूनिरर्गलः ॥ ६६ ॥ श्री भीमसेनहरिषेण नृपाङ्गजौ तौ स्वस्वोचितां नृपसुतां समवाप्य सौख्यम् । दौगुन्दकाऽमरवदन्वहमीप्सितं स्वं, क्रीडाविलासनिपुणौ क्रमतोऽन्वभूताम् ॥ ६७ ॥ मानसिंहनरेशोऽथ, यौवनस्थां सुलोचनाम् । विलोक्य मन्त्रिभिः सार्द्ध, वरचिन्तामचीकरत् ॥ ६८ ॥ निजतोक्तसन्देशमवधार्य स्वमानसे । नरेन्द्रेण विनिश्विक्ये, पुत्र्याः पाणिग्रहोत्सवः ॥ ६६ ॥ चितिप्रतिष्ठिताऽभिख्ये, पत्तने चितिवल्लभः । विजय सेननामाऽभू-चण्डदोर्दण्डराजितः ॥ १०० ॥ तस्मै भूपतये प्रादा-द्योग्याय गुणराशये । सुलोचनां कनीं चमापो महेन महताऽऽदृतः ।। १०१ ।। कन्यारत्नमथाऽऽसाद्य, विजयसेन भूपतिः । राजधानीं निजां प्राप्य, योग्यकर्माण्यसधायत् ॥ १०२ ॥ अच्छी सुखसागरः श्रुततपोगच्छाम्बरोष्णप्रभः । सूरि श्रीयुतबुद्धिसागरमुनिस्तत्पादसेवारतः । तच्छिष्येण विनिर्मिते सुललिते सर्गद्वितीयोऽगमत्, श्रीमत्सूर्यजिताऽन्धिना सुचरिते श्री भीमसेनाऽभिधे ।। १०३ ॥ इतिश्री भीमसेननृपचरित्रे द्वितीयसर्गः समाप्तः ।
अथ तृतीयः सर्गः ।
11
दीव्यर्द्धिपङ्कजनिकुञ्जविभाकरोयो - भव्यात्मबोधतरुसंततिवारिदोयः । सद्धर्मकर्मजलधीन्दुसमप्रभोय, स्तंनेमिनाथमनिशं
For Private And Personal Use Only
Acharya Shri Kissagarsun Gyanmandir
*++C03-*+193+***+++******+