SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन चरित्रम् | ॥९॥ k-*40*40***** www.batirth.org श्रुतम् । बान्धवाः कुलमिच्छन्ति, मिष्टान्नमितरे जनाः " ॥ ७६ ॥ मानसिंहः स्मरन्भेत - त्पक्वान्नैः पर्यंतोषयत् । विविधैर्नि मितैः सर्वान्मुदितो वरयात्रिकान् ॥ ८० ॥ देह्याज्ञां नृपतेऽस्माकं स्वदेशगमनाय वै। भौचित्यं भवता सर्व, विहितं तोषकारकम् ॥ ८१ ॥ ततस्तेषां धराधीशो, विदित्वा दृढमागृहम् । उचिताऽऽभरणैः सर्वा - विधिना समतोषयत् ॥ ८२ ॥ जामातुश्च महेभानां सहस्रं विततार सः । जात्याश्वानां सहस्रेद्वे, दासीदासगणांस्तथा ॥ ८३ ॥ पदातीनां रथानाश्च सहस्राणि वितीर्णवान् । अन्यान्युचितवस्तूनि प्रायच्छतुष्टिदानि सः ॥ ८४ ॥ ततोऽनवद्यभूपाभिभूषिताऽवयवा कनी । पितुः पादान्तिकं गत्वा, यियासुः प्रणतिं व्यधात् ॥ ८५ ॥ दुहित्रे प्रणतायै स- प्रददावाशिषं नृपः । कुलद्वयोचितं कर्म विधेयं दुहितः सदा १ ॥ ८६ ॥ मधुरं वचनं लोके, सर्वप्रीतिकरं स्मृतम् । तस्मात्कटूक्ति र्न काऽपि, गदितव्या कदाचन ॥ ८७ ॥ पितृवच्छ्वशुरो मान्यः, वधूर्मातृवदन्वहम् । माननीया ननान्द्राद्याः, सत्कार्याः स्वजनास्तथा ॥ ८८ ॥ इत्थं मातृजनेनाऽपि प्रमाणोचितसूक्तिभिः । अशोचद्रोधिता साऽपि वियोगातुरमानसा ॥ ८९ ॥ स्निग्धाः पितॄजनाः सर्वे, सुशीलामनुगम्य ताम् । अध्वानं कतमं पश्चा- दाययुः स्वपुरीं प्रति ॥ ६०॥ अथ कन्यां सामादाय, गुणसेननराधिपः । स्वपूरी जग्मिवान् धीरः, परिवारसमन्वितः ॥ ६१ ॥ एवं विवाहे संवृत्ते, भीमसेनस्य भूपतिः । निर्वृत्तिं परमां प्राप्य, तस्थौ नीतिविचचणः ॥ १२ ॥ ततश्च सुरसुन्दर्या, हरिषेणस्य मोदतः । विवाहोत्सवमातेने, नृपतिः प्रगुणैधनैः ॥ ९३ ॥ तुल्यार्थानां सदा शर्म, समानबलशालिनाम् । तस्मान्मैत्री विवाहब, नतु पुष्टविपुष्टयोः ॥ ९४॥ योग्यमेव ततः स्वस्थ, सम्बन्धं स विनिर्ममे । उत्तमा उत्तमैः सार्द्ध, मोदन्ते कृतबुद्धयः ॥ ६५ ॥ उभयोः पुत्रयोश्चैवं, For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandir *****+******++++*99 द्वितीयः सर्गः । ॥ ९ ॥
SR No.008549
Book TitleBhimsen Nrup Charitra
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherSagargaccha Jain Sangh Sanand
Publication Year1931
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy