________________
सरसमायुक्ता-न्याव स्तोरणानिच ॥ ३१ ॥ पञ्चवर्णा महोल्लोचा-मुक्तामणिसुशोभिताः । निबद्धा भाभितस्तत्र, मण्डपेषु चकासते ॥ ३२॥ नचत्रमण्डलं तत्र, विश्रामार्थमिवाऽऽगतम् । मणीनां निकरश्चित्रो-दीप्यते दीप्तिकेतनम् ॥ ३३ ।। तन्मध्ये संस्थितो भव्यो-मातृकामण्डपः शुभः । चित्रिता विविधैर्वर्णेश्चतस्रः कलशालयः ॥ ३४ ॥ परितस्तत्र सौवर्ण-स्तम्भवातसमन्विताः । मणिभिर्विविधां शोभा, प्रथयन्तिस्म सर्वतः ॥ ३५॥ युग्मम् ॥ भव्येषु मण्डपेवे, सौरभ्यरसवासिताः। मालाकारैः समाबद्धा-रेजिरे सुममालिकाः | ३६ ॥ जनानां मोहमातेनु-स्तद्विलोकन
चेतसाम् । भूरिगन्धप्रसारण, माल्यानि विविधानि च ॥३७॥ द्वयोनरेन्द्रयोरेवं, मण्डपादिसमक्रियाः । कुर्वन्ति स्म | कलावन्तः, सकलाः सेवका मुदा ॥ ३८ ॥ ततो लग्नदिने प्राप्ते, भीमसेनकुमारकः । वरघोटकवेलायां, सजीभूतमनोरथः
॥ ३९ ॥ सधवास्त्रीजनारब्ध-पिष्टिकामईनक्रियः। निर्मलोष्णाऽम्बुभिः स्नान, सुन्दरं व्यतनोत्सुधीः ॥ ४०॥ युग्मम् ।। नेपथ्यान्विविधान्यान् , देवदृष्यसमप्रभान् । दः स मणिसौवर्ण-तन्तूनसितपल्लवान् ॥ ४१ ॥ आभूपणानि चारूणि, चार्वनेषु समादधन् । तिलकं शोभनं भाले, कौमं स विनिर्ममे ॥ ४२ ॥ अनयमणिमाणिक्यैः, खचितं हीरकैवरम । मुकुट धारयामास, शिरसा नृपनन्दनः ॥ ४३ ।। गृहीतमस्तकावासा-मणि रत्नादयोऽपरान् । हसन्तीव प्रभापूर, जनयन्ति स्म सर्वतः ॥ ४४ ॥ सुवर्णकुण्डले दीप्रे, मणिरत्नविभूषिते । बमार श्रुतियुग्मेन, निर्जिताऽहमणिप्रभे ॥ ४५ ॥ नवलक्षधनोहारर, संस्थितो हृदयेऽमले। निजदीव्यप्रमापुजै-र्जनानुत्तेजयन् बभौ ॥ ४६ ॥ शस्तरत्नकटीसूत्रं, मेखला स्थानदीपकम् । दधे तेन कुमारेण, वचसाऽतीतवर्णनम् ॥ ४७ ॥ भुजाभ्यां कटके रम्ये, शातकुम्भविनिर्मिते ।
For Private And Personale Only