________________
Achhan Gyaan
कलापः ॥ ११२॥ कुमारभावोपगतस्य यस्य, चरित्रमत्यद्भुतमानिपीय । नेच्छन्ति पीयूषमपि प्रकामं, बुधाः सुधास्वादविजित्वरं वै ॥ ११३ ॥ समस्तविद्यार्णवपारदृश्वा, दृष्टार्थशाखश्च नयप्रवीणः । धनुर्विदा वा विदितप्रभावो,-वि. चारचाहा सुभटाऽवतंसः ॥ ११४ ॥ पात्रेषु दानी गुणवत्सु रागी, दीनेषु हीनेषु दयोपकारी । दुष्टेषु दण्ड्येषु च दण्डधारी, विद्वत्सु वैषम्यगुणापहारी ॥ ११५ ॥ कौमारभावं प्रविहाय साम्प्रतं, स यौवनं चारुतरं निषेवते । दशा नवीनां प्रतिपद्य
भूपते। विराजते कल्पलताकलापवत् ॥ ११६ : आजानुबाहुदृढिमोन्नतांसो-विशालवचा जलजातकण्ठः। कर्णान्त | विश्रान्तविलोचन: स-विभ्राजते भव्यललाटपट्टः ॥ ११७ ॥ विद्यावपुःशीलकुलं सुदचता, वित्तं वयोधैर्यमनर्थवेदिता । गुणा इमे प्राप्य परस्परं स्वयं, वसन्ति यस्मिन् खलु मित्रभावनाम् ॥११८॥ रूपं परं काऽपि कला न हृद्याः, संपत्तयः काऽपि न सौभगत्वम् । क्वाप्येव भाग्यं न विशारदत्व-मिमन्तु सर्वेऽपि गुणाः समीयुः ॥ ११९ ॥ तस्मात्तमेवाऽर्हतमं विदित्वा, श्रीभीमसेनं गुणसेनसूनुम् । कन्या स्वकीया सुगुणाय तस्मै, प्रदीयतां भूप ? । नराधिपाय ।। १२० ।। अयं हि योगो विधिनैव निर्मितो-ऽनयोः पुरा सृष्टिविधानवासरे । तमेव सत्यापय भूपतेऽधुना, कनीप्रदानेहि कियद्विलम्बनम् ॥१२१॥ सन्त्यन्यराजन्यसुता वरीतुं. योग्या न तास्तेन कुमारकेण । तस्मात्त्वदीयान्तिकमागतोऽहं, त्वत्कन्यका योग्यतमानुरूपा ॥ १२२ । तोक्तिमाकये समीहितार्था, नराधिपस्तुष्टमना बभूव । स्वचिन्तितार्थे स्वयमेवसिद्धे, प्रमोदभाजो हि भवन्ति के नो ॥ १२३ ॥ विज्ञाप्य वृत्तान्तमशेषमेतद्धरापतिनिधिः प्रियां स्वाम् । सम्बन्धमेनं प्रविधातुमिच्छन् , बभूव सज्जः शुभकर्मदक्षः ॥ १२४ ॥ दीव्यानि वस्त्राणि वितीर्य तस्मै, दूताय सन्तोष्य धनप्रदानात् । स्फुरत्प्रभः सभ्य
For Private And Personale Only