________________
Shri Mahavir Jain Aradhana Kendra
श्री भीमसेनचरित्रम्
॥ ३ ॥
**************
www.kobarth.org
स्तत्कथयामि तुभ्यम् । दिवाकरालोकनतस्तवैकः पुत्रः पवित्रो भविता प्रतापी ॥ ५१ ॥ निर्णय राज्ञो वदनाद्वचोऽमृतं, बद्धाश्वले ग्रन्थिमियाय सा निजम् । निकेतनं सर्वसमृद्धिकेतनं, तथाऽस्त्विति प्रोच्य महोनताशया ॥५२॥ निशाऽवशेषस्य विनिर्गमाय, दासीगणं साऽन्तिक श्राजुहाव | सुस्वप्नमासाद्य यतो जनाना - मवश्यमुञ्जागरणं विधेयम् ।। ५३ ।। कुस्वप्नतस्याद्यदि निद्रितानां सुस्वप्नजन्यं फलमाऽऽशु हन्ति । तस्माजजागार निशाऽवशेषं कथाविनोदेन परस्परं सा ।। ५४ ॥ थोरश्मावुदिते नरेश्वरो ध्यायें स्तदेव प्रययौ सभाssस्पदम् । श्रमात्यम्मुख्याश्च निमित्तवेदिन- आकारिताः सभ्यजनाः समागमन् ।। ५५ ।। पप्रच्छ भूपः सुविनीतभावः, स्वप्नार्थमेतान्विबुधान्सदःस्थान् । विचारयामासुरमुष्यभावं, समाहिताः स्वप्नविवोधिनोऽपि ॥ ५६ ॥ तस्थुश्च तुष्णीं श्रवणैकलता - भूपादयः कौतुकदत्तचित्ताः । द्वासप्ततिस्वप्नफलानि सम्यक् प्रोचुर्द्विजा ज्ञातनिमित्तकल्पाः । ॥ ५७ ॥ त्रिंशच्च तेषां गुणतोऽधिकानि, शेषाणि वै हीनफलप्रदानि । दिवाकरस्वप्नमवेचते या सा पुत्ररत्नं लभते गुणाढ्यम् ॥ ५८ ॥ सन्तर्जितस्वर्गिगुरुं स्वबुद्ध्या, प्रचण्डदोर्दण्डबलप्रभावम् । निधानरत्नादिसमृद्धिभाजं, वीरश्च वीरोभयवंशदीपम् ।। ५९ ।। ननन्द राजा सुतजन्म भावि, निशम्य तेभ्यो धनमप्रमेयम् । ददावथ स्वप्नविदः प्रमोदा - दत्वाऽऽशिषं स्वस्वगृहाणि जग्मुः || ६० ॥ वृत्तान्तमेतदुचिरं विदित्वा, स्वस्वामिनोक्तं प्रियदर्शनाऽपि । जहर्ष कामं ललितस्वभावा, समीहितं प्राप्य न रज्यते कः १ ॥ ६१ ॥ ततोऽन्यदा धार्मिककर्मदक्षा, सुपात्रदानैकनिविष्टचेताः । सुष्वाप भूमीपतिभामिनी सा, निशि स्वकीये शयने महायें ॥ ६२ ॥ दधार गर्भ
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
*******-69*
प्रथमः
सर्गः ।
॥ ३ ॥