________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
शुद्धभावादनासेव्य, कर्मपाशाम मुच्यते ॥ १२४ ॥ एवं मुनिवचः श्रुत्वा, शुद्धभक्तिसमन्वितः । मनोमिलाषयाऽशोकचन्द्रोरैवतकं ययौ ॥ १२५॥ स्थिरवृत्तिः स तत्रस्थ-स्तपश्चर्या समादधत् । कियहिनैरधिष्ठात्री, तद्गिरेरम्बिका सुरी ॥१२६॥ समागत्याऽन्तिके तस्य, तस्मै तुष्टमना ददौ । स्पर्शमात्रेण लोहस्य, सुवर्णकारकं मणिम् ।। १२७ ॥ गृहीत्वा तन्मणिं सोऽगाव, पत्तनं निजमुत्सुकः । द्रव्यसाहाय्यतोराज्य, रचितैर्बहुमिनरैः ॥ १२८ ।। लब्ध्वा च विविधान्मोगान् , भुजे शुभयोगतः । उपार्जितोहि पुण्योधः, किं किं न जनयेत् सुखम् ।। १२९ ॥ युग्मम् ॥ अथैकदाऽशोकचन्द्र-वेतसाऽचिन्तयत्सुधीः । प्राप्तराज्यरमालक्ष्मी-मा घिगस्तु प्रमादिनम् ।। १३० ॥ यत्प्रभावेण यत्प्राप्ता,-मया राज्यादिसंपदः । सा देवी न स्मृता कापि, न नता पापबुद्धिना ॥ १३१ ।। एवं विचिन्त्य शुद्धाऽऽत्मा, तीर्थयात्राकृतेऽचलत् । सामग्री मेलयित्वा स-ददद्दानं जनैर्वृतः ॥ १३२ ॥ कतिभिर्वासरैः संघ-सहितः स नराधिपः । शत्रुञ्जयगिरि प्राप, स्वजनैः परिवारितः॥ १३३ ॥ श्रीमदादिप्रसुं तत्र, पूजयित्वा यथाविधि । रैवतादि ततः प्राप-स श्रियाऽलङ्कतं शुभम् ।। १३४ ॥ गजेन्द्रपदमुख्यानां, कुण्डानां पुण्यवारिणि । कृतस्नानः स विधिना, नेमिनाथमपूजयत् ।। १३५ ॥ ततोऽम्बिका जगन्माता, पूजिता तेन भूभृता । विविधैः कुसुमेधूपै-नतेन भक्तिभारतः ॥१३६॥ व्यचिन्तयदिति प्राज्ञो-विरक्तीभूय चेतसि । शरदां त्रिशती याव-द्राज्यं भुक्तं मया शुभम् ।। १३७ ॥ नेमिनाथस्य देवस्य, देव्यम्बायास्तथाऽखिलः। प्रभावो विद्यते नूनं, विना देवं कुतः सुखम् ॥१३८॥ राज्याऽऽसनसमारूढा, पुत्रो भवतु मेधुना । जैनी दीचां गृहीत्वा श्री-नेमिनाथं भजाम्यहम् ।।१३६॥ विचिन्त्येति निजं पुत्रं, प्रस्थाप्य स्वपुरं प्रति । तत्कालं स्थापयामास, भूपती राज्यविष्टरे ॥१४० ।। स्वयश्च दीक्षामादाय,
For Private And Personlige Only