________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
कथा
भीमसेन-| नृपस्य,
॥९०॥
पुरुषं ज्ञापयामास, देशान्तरनिवासिनम् ॥ १०७ ॥ तद्वत्तान्तं समाकण्ये, पथिका स तमब्रवीत् । मा शोचस्व मया सार्च, समागच्छ सुखेन वै ॥१०८|| बजतो रोहणगिरि, तयोरधनि सत्त्वरम् । संप्राप्त आश्रमः कोऽपि, तापसानां मनोरमः॥१०॥ तत्राऽऽसीजटिलाऽभिख्यो-मिताशी वृद्धतापसः । नमस्कृत्य प्रमोदेन, तमुभी तत्र संस्थितौ ॥११०॥ ताबजाङ्गलनामैका, शिष्यस्तस्य पदाऽम्बुजे । प्रणनाम गुरोर्नेम्रो-विनयेनाऽऽगतोऽऽम्बरात् ॥१११।। कपटैकनिधिः शिष्य-पप्रच्छ जटिलोनिजम् । वत्स त्वमधुना कस्मा-दागतोऽसि निवेदय ॥११२ ॥ जाङ्गलः प्रोचित्रान्स्वामिन् १, सौराष्ट्रे जग्मिवानहम् । तत्र शत्रुञ्जये तीर्थे, उज्जयन्तगिरौ तथा ॥११३॥ श्रीमजिनेन्द्रबिम्बानि, संपूज्य चन्दनादिमिः। दीव्यकान्तिमयान्यत्र-भवन्तं दृष्टवानहम् ।। ११४ ॥ मादृशः पुरुषः कश्चि-प्रभावं तीर्थयोस्तयोः । प्रवक्तुं न समर्थोऽस्ति, किं वदामि तवाग्रतः ॥११५।। महिमानं ययोातुं, न चमः कोऽपि मानवः । केवलं केवली वेत्ति-ज्ञातलोकत्रयस्थितिः ॥११६ ॥ यदाराधनतोलोकद्वयसौख्यं हि जायते । तत्रोजयन्तशैलस्य, प्रभावं कथयाम्यहम् ॥११७॥ यस्याऽऽराधनमात्रेणा-ऽशोकचन्द्र इवाऽमलाम् । कीर्ति कान्ति कलां देही, लभते स्वर्गसंपदम् ॥ ११८ ॥ चम्पायां निर्धनोऽशोक-चन्द्रः चत्रकुलोद्भवः । परोपकारनिरतोविरक्तोगृहकर्मणि ॥११९॥ अन्यदा पर्यटन खिन्नो-दृष्ट्वा जैनतपस्विनः । दयालून् स नमस्कृत्य, पप्रच्छ विनयान्वितः ।। १२० ॥ मनीन्द्रा ? दर्भगत्वेन, भयसा पीडितोऽस्म्यहम् । उपायं यदि जानीथ, कृपया ब्रत माऽञ्जसा ॥१२॥ तपस्विनः समाचख्यु-र्वत्स ? कर्मवलाच्छृणु । प्रमादी निर्बलोजीवो-भ्रमत्यस्मिन्भवोदधौ ।। १२२ ।। अन्यथा कर्म तत्कर्नु, न शक्तः कोऽपि मानवः । पीडयत्यलमात्मानं, तत्संकल्पविकन्यतः ॥ १२३ ।। विपाकं कर्मणां जीवो-ऽभुक्त्वा रैवतकं गिरिम् ।
॥९
॥
For Private And Personlige Only