________________
-
+-
कथा।
भीमसेननृपस्य,
ऽपि, जलं मे नैव यच्छति ॥ ७४ ॥ मयि यातेऽतिनिर्माग्ये, फलानि सरितां जलम् । रत्नानि रोहणगिरे-रदृश्यानि भवन्ति हि ॥ ७५ ।। न मे भ्राता पिता कान्ता, परिवारश्च कश्चन । तथापि जठरं भर्तृ-मशक्तोऽस्मि ब्रवीमि किम् ॥७६॥ दीनं निशम्य तद्वाक्यं, मायावी तापसाऽधमः । जगाद वचनं प्रेम्णा, पीयूषाऽक्षरसन्निभम् ।।७७॥ विषादं कुरु मा भद्र', विस्मर स्वपराजयम् । दृष्टे मय्यखिलं दुःखं, त्वदीयं नष्टमेव च ॥ ७८ ॥ परेषामुपकाराय, पर्यटामि निरन्तरम् । न मे स्वार्थोऽस्ति लोकेऽस्मिन् , कस्मात्वं विमनायसे ॥ ७९ ॥ मेघो वर्षति सर्वदोष्णकिरणः प्रद्योतयत्यम्बरं, चन्द्रः शीतलतां प्रयच्छतिफलन्तिमारुहाश्चन्दनाः । रोहन्ति प्रवहन्ति सर्वसरितोवाताश्च वान्ति चितौ, सन्तस्तुष्टिकरा अटन्ति सकलचैतत्सता लक्षणम् ॥८०॥ मयासार्द्ध समागच्छ, सिंहलद्वीपमध्यतः । तुभ्यं दास्यामि रत्नानि, खनीजानि बहून्यहम् ॥८१॥ त्रिदण्डिनोवचः श्रुत्वा, तेन साकं चचाल सः । विश्वासं जनयत्याशु, मुनिवेषो हि देहिनाम् ।। ८२ ।। शतमुद्राव्ययेनैव, क्रीत्वापाथेयमुत्तमम् । कियद्भिर्दिवसैरत्न-खानीं तो प्रापतुर्मुदा ॥८३ ॥ अथ कृष्णचतुर्दश्यां, कपटागारतापसः । भीममुचार्य तत्खन्या, रत्नानि चाऽगृहीत्स्वयम् ॥ ८४ ॥ दुष्टेन तेन तद्रज्जू-मुच्छिद्य तत्र कैतवात् । निचिचिपे भीमसेन-स्तदविष्टायकाय वै ॥८५ ॥ देवताबलये भीम, विमुच्य तत्र तापसः । अध्वानमन्यमाश्रित्य, चचाल मुदिताशयः ॥८६॥। निर्विएणमानसो भीमो-चभ्रामेतस्ततः खनौ । अत्यन्तपीडितं कश्चि-ददर्श पुरुष कृशम् ॥ ८७॥ भीमसेन समालोक्य, सोऽपि जातदयोऽब्रवीत् । वत्स ? मृत्युमुखे कस्मा-दस्मिन्त्रागतवानसि ॥८८| मद्वत्तेनैव दुष्टेन, तापसेन विलोम्य किम् । वञ्चितोऽसि प्रदानेन, रत्नानां त्वमपि प्रिय ? ॥ ८६ ॥ ओमित्युक्त्वा भीमसेनः, पप्रच्छ पुरुषं तदा । उपायोऽस्मादहि- *
॥८९॥
For Private And Persone
Only