________________
Shri Mahavir Jain Aradhana Kendra
*403000*40*8+K+K+++++
www.kobatirth.org
सेनस्तदीयकम् । स्वीकृत्य वचनं पृष्टः, समुद्रस्थगिरिं ययौ ॥ ५७ ॥ तस्य हकारवेणोश्चैर्व्रजतां वयसां प्लवः । गरुतां पवनेन द्राकू, चचालाङ्कुरमध्यतः ॥ ५८ ॥ शैलस्थो मीमसेनोऽथ बिह्वलीभूतमानसः । चिन्तयञ्जीवनोपायं, भ्रष्टवर्मेव पर्यटन् || ५९ ।। उपायं कञ्चिदप्राप्य, विलक्षीभूतमानसः । तमेव शुकमन्वेष्टुं पर्यधावत दुःखितः ॥ ६० ॥ दैवात्स शुकराजोऽपि भीमदृष्टिपथं गतः तत्कालमेव तेनाऽपि, गदितः स हितं वचः ॥ ६१ ॥ भीमसेन ? समुद्रान्त- र्निपत क्षेममात्मनः । वाञ्छसि चेन्महामत्स्य - स्त्वां गिलिष्यति चाऽञ्जसा ।। ६२ ।। ततः स जलधेस्तीरं यास्यति चणमात्रतः । सावधानमतिस्त्वञ्चे-गृहाणेमां महौषधिम् || ६३ ॥ निचिप्तयाऽनया मीनः कण्ठं विस्फारयिष्यति । त्वया तत्कण्ठमार्गेण, यातव्योजलवेस्तटः ॥ ६४ ॥ मदुक्तकरणेनैव, जीवनं तव विद्यते । अन्यथा जीवनोपाय - स्त्रिषु लोकेषु दुर्लभः ।। ६५ ।। शुकोक्तं वचनं सत्यं मत्वा साहसकर्मठः । तथाविधकृतोपायः, सिंहलद्वीपमाप सः ॥ ६६ ॥ स्वस्थीभूय भ्रमस्तत्र, वीक्षमाणः समन्ततः । सरस्तत्रैकमालोक्य, विश्रामाय स जग्मिवान् ॥ ६७ ॥ निर्मलं जलमापीय क्षणं संसेव्य शीतलाम् । वृचच्छायां दिशामेका - मुद्दिश्य प्राचलत्ततः ।। ६८ ।। कियन्तं मार्गमुल्लङ्घय, व्रजतस्तस्य वर्त्मनि । त्रिदण्डी जटिलः कश्चिद्बभूव नयनाऽतिथिः ||६६|| प्रणतः सोऽपि धीरोक्त्या, ब्रुवन्नाशीर्वचोमुदा । पप्रच्छ विनयोपेतं, तमागमनकारणम् ॥७०॥ भद्र ? स्वं कोऽसि गहने, वनेऽत्र भ्रम से कथम् । दुःखितोज्ञायसेऽतो मे, निजदुःखं निवेदय ॥ ७१ ॥ श्रुत्वेत्थं तापसगिरं, भीमसेनः प्रमोदभाक् । उवाच तापसश्रेष्ठ १, मन्दभाग्योऽस्मि सर्वथा ॥ ७२ || जगत्यस्मिन् सुदुःखार्त्ताः, सौभाग्यभाग्यवर्जिताः । तेषामाद्यमवेहि त्वं मां तपस्विशिरोमणे ? ॥७३॥ यदर्थं यामि यत्राऽहं तत्र तचैव सिद्ध्यति । तृषाऽऽर्त्ताय समुद्रो
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
-+++++++++***