________________
Acharyash
agan Gyaan
निजमित्रसहायेन, दुराचारानसेवत ॥ २२ ॥ दुष्टमित्रैः समं भीमो-मिलित्वा क्रुदमानसः । मातरं पितरं चैव, जघान क्रूरशेखरः ॥ २३ ॥ स्वयं च राज्यमादाय, कुमित्रैः परिवारितः । मद्यादिव्यसनाऽऽसक्तः, प्रजाः पीडयतिस्म सः ॥ २४ ॥ तादृशं व्यसनाऽऽसक्तं, विज्ञाय दुष्टभूपतिम् । पौरामात्यगणाः सर्वे, सामन्ता दुःखिता भृशम् ॥ २५ ॥ अनेन दुष्टभूपेन, सृतं पितृविघातिना । शून्यमेव वरं राज्यं, कुनरेन्द्रसमाश्रयात् ।।२६।। मन्त्रयित्वेति दुष्टं तं, सर्वेऽपि सचिवादयः। देशानिसियामासु-र्दुनयं षणमात्रतः ॥ २७ ॥ ततः शास्सैकनयनं, न्यायशास्त्रविशारदम् । राज्यासनेऽभ्यपिश्चस्ते, विनीतं जिनवल्लभम् ।। २८ ।। नवोदयं नरेन्द्रं तं, विदित्वा राजमण्डलम् । प्रसनमानसं जज्ञे, सर्वोपद्रवनाशतः॥ २९ ॥ दुराशयोऽथभीमः स,-देशान्तरगतोऽपि सन् । चौर्यादिकरणेनैव, लोकानत्रासयन्मुहुः ॥ ३० ॥ अधाणि च कर्माणि, विधाय विपरीतवाक् । जने तिरस्क्रियां लेभे, व्यसनं सुखदं कुतः! ॥ ३१ ॥ पाथेयलोभतोमार्गे, पान्थास्ताडयतिस्म सः। वेश्या जनप्रसङ्गेन, विषण्णमानसोऽभवत् ॥ ३२ ॥ एवमन्यायिनं भीम, भीमकर्माणमन्वहम् । गृहीत्वा ताडयामासु-र्जना मुष्ट्यादिघाततः ॥ ३३ ॥ विनिर्गत्य ततोदुःखी, ग्रामाद्रामं परिभ्रमन् । पृथ्वीपुरं पुरं प्राप, मगधेषु स दुर्मतिः ॥ ३४ ॥ मालाकारगृहे तत्र, भृत्यमावेन तस्थिवान् । तत्रापि फलपुष्पादि, नानाद्रव्यमचूचुरत् ॥३॥ स्तेनोऽयमिति विज्ञाय, मालाकार। स्वसअतः । सद्योनिष्कासयामास, भीमसेनमनर्थदम् ॥ ३६ ॥ ततः स श्रेष्ठिनं कश्चि-दभ्यर्थ्य तद्गृहेऽवसत् । हट्टे तस्य स्थितोनित्यं, सर्वकार्याणि चक्रिवान् ॥ ३७॥ तत्राऽपि दुष्ट व्यसनं, न तत्याज नराधमः । श्रेष्ठिहट्टस्थितं द्रव्यं, लुण्टित्वा स्वयमाहरत् ॥ ३८ ॥ केनाऽप्यलचितः स्तन्यं, विधाय स किरातवत् । पापपुञ्जरतिजेने, प्रकृतिस्त्यजा नृणाम् ॥ ३९ ॥
For Private And Persone
Only