________________
श्री
मीमसेन
॥ ७॥ युग्मम् ॥ तस्याऽनुजोबभूवाऽऽक्ष्यः, सद्गुणैर्जिनवल्लभः । जगजनमनोहर्चा, राजनीतिविचषणः ॥ ८ ॥
ज्येष्ठं मत्वा नरेशोऽथ, भीमसेनं गुणाऽधमम् । युवराजपदं तस्मै, दत्तवानपि दुर्धिये ॥९॥ लन्धराज्यपदश्रीकोनृपस्य, || मत्तबुद्धिः स सर्वदा । परस्त्रीस्वसमासक्तो-ऽपीडयत्सकलाः प्रजाः ॥१०॥ यौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता ।
एकैकमप्यनीय, किमु यत्र-चतुष्टयम् ॥ ११॥ अथाऽन्यदा प्रजाः सर्वा,-भीमसेनेन पीडिताः । वज्रसेनसभामेत्य, ॥८७॥ A पूच्चक्रुभूरिदुःखतः ॥१२॥ राजन् ! भीमकुमारोऽस्मान् , भृशं पीडयतेनिशम् । यत्रिवेदयितुं नैव, वयं शक्तास्त्वदन्तिके
॥ १३ ॥ दुःखार्णवनिमनाना-मस्माकं पृथिवीपते ? । त्वमेवोद्धारकोधीमन् , निग्रहाऽनुग्रहक्षमः ॥ १४ ॥ तस्माद्विचार्य राजेन्द्र ? योग्याज्योग्यमनल्पधीः । संहर दुःखमस्माकं, शरणं नृपतिर्जने ॥१५॥ निशम्य तद्धराधीशः, प्रजानां क्रन्दनं भृशम् । सान्त्वयित्वा वचोभिस्ताः, सामभिर्व्यसृजत्समाः ॥ १६ ॥ अथ भीमकुमारेन्द्र, समाहूय निजाऽन्तिके । नीतिवाक्यप्रयोगेण, शिक्षयामास भूपतिः ॥ १७ ॥ वत्साऽऽध्यजनांनभस्व विपुलां, कीर्ति जने दुर्लभां, स्त्रीद्रव्यापहृतिं परित्यज सदा भक्तिं कुरुष्वोत्तमाम् । पूज्यानां च जिनेश्वरस्य सचिवैर्मान्यं प्रयुक्तं वचो-न्यायं स्वीकुरु दुर्नयं परिहर मापस्य धर्मोऽस्त्ययम् ॥ १८ ॥ सद्वाक्याऽमृतसेचनेन वसुघापीठे प्रतिष्ठा परां, लब्ध्वा धर्मपथे सदैवगमनं, कार्य त्वया धीनिधे । हेयानि व्यसनानि सप्त विमला, बुद्धिविधेया क्रमा-देतस्माद्धनकीर्त्तिदीव्यविभवाः प्रादुर्भवन्त्यङ्गिनाम् ।। १९ ॥ एवं प्रतिदिनं राज्ञा, शिचितोऽपि कुमारकः । पीताऽमृतोऽप्यहिः वेडं, नाऽत्यजदुष्टतामिव ॥२०॥ बहुधा शिचितं भीम, विनीतं कर्तुमक्षमः । कोमलाङ्गमपि क्रुद्ध-श्चिचेप चारके नृपः ॥ २१॥ कतिचिद्वासरांस्थित्वा, कारायां स दुराशयः ।
For Private And Persone
Only