________________
Achanagar Gyarmat
ॐ अहम् आचार्यप्रवरप्रसिद्धबक्त्रा-श्रीमद्-अजितसागरसूरिविरचिता
श्रीभीमसेननृपकथा (२)
यः सौभाग्यततिं तनोति विमलं विज्ञानमायच्छति. विघ्नाली दलयत्यकाण्डपतितां निर्वारयत्यारकम् । दुष्टान्दूरयति प्रमादजनितान्दोपाँश्वसञ्चिन्मयः, श्रीचिन्तामणिपार्श्वनाथमनिशं वन्दे तमीशं सदा ॥१॥ श्रीसिद्धार्थनरेन्द्रमनुमनिशं दीव्यप्रभाभासुरं, नत्वाऽनन्यबलं सुरासुरनतं श्रीवर्द्धमानं जिनम् । संक्षेपादहमन्तरायकरणे श्रीभीमसेनप्रभो-वक्ष्ये चित्रचरित्रमुन्नतिकरं भव्यात्मनां तुष्टये ॥२॥
जम्बूद्वीपाऽभिधे द्वीपे, भरतक्षेत्रमुन्नतम् । समस्ति नगरी तत्र, श्रावस्ती सर्वदा शुभा ॥३॥ वज्रसेननरेन्द्रो * यां, प्रशास्तिस्म महाबलः । साधूनां पालकोयोऽभू-दरीणां मानमर्दनः ॥ ४॥ भार्या तस्याऽभवद्भद्रा, सुभद्राख्या | शुमैर्गुणैः । भूभामिनीमहाभूषा, विकसत्पङ्कजाऽऽनना ॥४॥ दम्पत्योर्विषयोद्भूतं, सुखं मुञानयोस्तयोः। भीमसेनामिधः सूनु-ज्येष्ठोऽभूद् गुणतोलघुः ॥६॥ अन्यायस्यैकसदनं, दुराचारनिषेवकः । पूज्यानां पीडने दचः, प्रजानां मर्देने परः
For Private And Personale Only