________________
ShriMahavir JanArchanaKendra
Achanan
sagarson Gyarmand
भासीच्छीसुखसागरः श्रुततपागच्छाऽम्बुजाऽहस्करा, मूरिः श्रीयुतबुद्धिसागरगुरुर्यत्पादसेवारतः। तच्छिष्येण विनिर्मितेजितसपद्रेणैष सूरीन्दुना, सर्गोऽभूचरिते त्रयोदश इह श्रीभीमसेनाभिधे ॥ ३६५ ।।
इति श्रीभीमसेननृपचरित्रे त्रयोदशः सर्गः समाप्तः ॥
सम्पूर्णश्चाऽयं ग्रन्थः ॥ ॐ शान्तिः३॥
अथग्रन्थकारप्रशस्तिः।
श्रीमद्वीरजिनेश्वरस्य विशदे तीर्थे सुधर्मप्रभु,-य॑भ्राजद्गणभृत्प्रतापतरणिः सद्धर्मधौरेयकः । पीयूषोपमवाग्विलाससरणिं यनिर्मितां धार्मिका, भव्या भावतया प्रपद्य विलसन्त्यद्याऽपि भूमण्डले ॥१॥ तत्पट्टश्रियमावभार विदुषां वन्द्यः सदा भासुरां, सूरीशस्तपगच्छनायकमणिमारी विपद्वारकः। दीन्हीशाऽकबरप्रजापतिमरं संबोध्य विज्ञानतः, पारंपर्यवशेन हीरविजयस्तत्वाऽर्थविस्तारकः ॥२।तत्पट्टाऽमरशैलसिद्धशिखरं व्यद्योतयद्भानुव,-सिद्धाऽऽत्मा सहजोदधिः क्रमतया भास्वत्प्रभाभा सुरः। यद्वाचाऽमृतपानपुष्टवपुषो भव्या विभूतिं परां, संप्राप्याऽव्ययसंपदं च विधिना धर्मप्रिया लेभिरे ॥३॥ तत्पट्टाऽम्बरतिग्मरश्मिरतुलप्रज्ञानिधिर्वाचक-श्रेष्ठः श्रीजयसागरः श्रुतधरः श्रीमानुपाध्यायकः । निर्द्वन्द्वः कुविवादिवादहरणे संबद्धकक्षः सदा,
For Private And Personlige Only