________________
Acharya th
a gan Gyaan
त्रयोदशः सर्गः।
मीमसेनचरित्रे। ॥ ३॥
प्राणिनो बहून् । अर्द्धचर्वितघासाना, ग्रासानुद्रितो मयात् ॥ २८३ ॥ कर्मणेव हृतस्तेन, तुरगेण तरस्विना । अतिधोरमहाटव्यां, प्रतिप्तः क्षणमात्रतः ।। २८४ ॥ अवाप्य विषमं देशं, सप्तिर्मन्दगतिं व्यधात् । नृपतिर्भयमापन्नो-निःसहायो व्यचिन्तयत् ॥ २८५ ।। क राज्यं क परीवारः, क च मे संपदोऽखिलाः। विषमश्वापदाकीर्ण, केदं निर्मानुषं वनम् ॥ २८६ ॥ अत्रान्तरेऽञ्जनश्यामः, संवर्मितकलेवरः । किरातः प्रेक्ष्य धात्रीशं, दध्यावनुचरोपमः ॥ २८७ ॥ प्रभाविको नरः कोऽपि, पतितोऽयं महाटवौ । करोम्यतोऽस्य सद्भक्ति-मुचितोचितमादरात् ॥ २८८॥ विचिन्त्यति नृपं नत्वा, कविकेर्वाणमग्रहीत् । निनाय च जलोपान्त, मश्वादुत्तीर्णवान्नृपः ।। २८६ ।। समुत्तारितपर्याणं, कृतपद्दामवन्धनम् । तुरङ्ग मुक्तवान् दुर्वा-वने चनचराधिपः ॥२६०॥ ततोऽकुण्ठमतिमिल्लः, संस्नाप्य नृपतिं मुदा। पनसादिद्रुमाणाश्चाऽऽ-नीयपक्कफलान्यदात् ॥२९१ ॥ सुस्वादुनि फलान्येता-न्यास्वाद्याऽनुग्रहं कुरु । प्रणम्य शिरसा पादौ, भूपतिमित्ययाचत ॥ २६२ ॥ दध्यो धराधिपश्चित्ते, वेषेण विषमक्रियः । भिन्नजातिसमुद्भुत-स्तथापि करुणाऽऽलयः ॥ २९३ ॥ अहो ? निर्हेतुकं चाऽस्य, वत्सलत्वमलौकिकम् । अहो ? विनयिताचाऽस्य, भक्तिभावोऽप्यनुत्तमः ॥ २६४॥ वचसा विस्तरश्चित्रः, मानदानमहो ? महत् । भनेन ज्ञायते नूनं, महापुरुषचेष्टितम् ।। २६५ ॥ आहारग्रहणेनाऽयं, प्रीसानीयस्ततोमया। विमना माऽस्त्वयं मिलः, प्रतिज्ञातं नृपेण तत् ।। २९६ ॥ अनुग्रहो महानित्थं, ब्रुवाणः स नृपक्रमौ । पुनः पस्पर्श भावेन, विनीत इव सेवकः ॥ २६७ ॥ भूपेनाऽभ्यर्थना चक्रे, सफलाऽस्य फलाशनात् । समयज्ञा महान्तो हि, परानुग्रहकाशिणः ॥ २९८ ॥ तदानीच दिवानाथे, द्वीपान्तरमिते सति । सायन्तनं कृतं कृत्यं, नरेशेन निजोचितम् ॥ २९९॥ किरातेनाऽऽसनं रम्यं, कुसुमैरतिसौरमैः । कल्पितं
For Private And Personale Only