________________
जराहीना,-निर्भयाः सिद्धिहेतवः ॥२६६ ॥ एतादृशां न किं सौख्यं, परमानन्दयोगतः । वीतसर्वापदां यद्वा, सिद्धान्तप्रथितं हि तत् ॥ २६७॥ यदि सिद्धस्य शम्मौषः, सर्वतः पिण्डितो भवेत् । अनन्तशो विभक्तोऽपि, न माति सकलाऽम्बरे
॥२६८ ॥ सर्वेषां मानवानां त-देवानां च न विद्यते । यदस्ति सौख्यं सिद्धानां, निराबाधप्रवर्चिनाम् ।। २६६ ॥ सिद्धानां | सुन्दरं सौख्यं, प्रमातुं नैव पार्यते । केवलं वाग्विलासस्य, गोचरीक्रियते नृप ? ॥ २७० ॥ निशम्येति समुत्पन्न-संवेगः श्रवणोत्सुकः । देवसेनोऽवदद्भगवन्, ? सिद्धस्वरूपमुच्यताम् ॥ २७१॥ केवली कथयामास, नासौ दीर्घः स्वरूपतः। न इस्वो न त्रिकोणच, चतुष्कोणो न वर्चुलः ॥२७२ ॥ पञ्चवर्णविहीनोऽसौ, न दुर्गन्धस्य गोचरम् । सुगन्धेन विहीनश्च, न पुमान स्त्री नपुंसकः ।। २७३ ।। कटुस्तिक्तोनचाम्लोऽस्ति, नोष्णः शीतोगुरुर्लघुः । स्निग्धो रूपो मृदुबण्डो-न स्वादुस्तुवरो न च ॥ २७४ ।। न संगो न विलेपश्च, नास्यापि विद्यतेऽन्यथा । संज्ञोपमा परिना च, नीरूपः सत्तया तु स: | ॥२७५ ॥ शब्दः स्पर्शोरसोगन्धो-रूपश्चास्य न विद्यते । अपदस्य पदं नास्ति, निर्विकार उदीयते ॥ २७६ ॥ सकलानन्त| योगीश-भव्यानन्दनिकेतनम् । सर्वप्रपञ्चनिर्मुक्तं, परब्रह्मेति तं जगुः ॥ २७७ ॥ दृष्टान्तश्चान्यदत्राऽस्ति, देवसेन ! निशम्यताम् । सोऽवदद्भगवन् भूरि-कृपाऽनेन ममोपरि ॥ २७८ ॥ उवाच केवली भगवान् , पुरं रत्नपुराभिधम् । समस्ति निजसंपद्भि,-देवेन्द्रपुरसनिमम् ।। २७६ ॥ विजितारिधराधीश-स्तत्राऽस्त्यन्वर्थसंज्ञकः । वसुमत्यभवत्तस्य, रमणी रम्यलोचना ॥२८० ॥ भुञ्जानयोस्तयोर्मोगान् , दम्पत्योधर्मकाशिणोः । व्यतीयुर्वासरा मव्याऽ-नन्दकलिसुखप्रदाः ॥२१॥ एकदा आमापतिर्भव्य-मारुह्य तुरगं वनम् । महर्द्धिरापि पापर्द्धि-हेतवेगाच्चरान्वितः ॥ २८२॥ निमन्तूनपि भूजानि-जंघान
For Private And Personale Only