________________
Shri Mahavir Jain Aradhana Kendra
*++++**+++*9**++******+******++
www.bobatirth.org.
सप्त द्वयोर्मानं, षडूर्ध्वं नाकिषु द्वयोः || २३१ ।। द्वयोस्ततः पञ्चहस्ता-बत्वारःस्युस्ततोद्वयोः । त्रयोहस्ता द्वयोरूर्ध्व-मूर्द्धमाभ्यां द्वयोस्त्रयः ।। २३२ ।। इति द्वादशकल्पाना - मूर्द्ध ग्रैवेयकेष्वपि । अधःस्थेषुकरौ द्वौच, द्वौमध्येपूर्ध्वगेषु च ॥ २३३ ॥ त्रिषुतावत्करौ तेभ्यः, परेहस्तप्रमासुराः । सौधर्मेशानयोरायुः- स्थितिद्वौ सागरोपमौ ॥ २३४ ॥ सनत्कुमारमाहेन्द्र-कन्पयोः सप्तसागराः । ब्रह्मकम्पेस्थितिर्ज्ञेया, दशैवसागरोपमाः ॥ २३५ ॥ चतुर्दशाऽऽयुर्मानञ्च, लान्तकस्थायिनां मतम् । सप्तदशैव संप्रोक्ता महाशुक्रेस्थितिस्तथा ॥ २३६ ॥ अष्टादश सहस्रारे, निश्चिता आयुषः स्थितिः । एको न विंशतिर्नून, - मानते वर्णिता जिनैः ॥ २३७ ॥ विंशतिः प्राणते प्रोक्ता, चैकविंशतिरारणे । द्वाविंशतिः स्थितिर्ज्ञेया, प्राज्ञैरच्युतकल्पके ॥ २३८ ॥ सर्वार्थसिद्धिपर्यन्तेष्वतो ग्रैवेयकादिषु । एकैको वर्धते ताव द्यावत्रिंशत्त्रयाऽधिका ॥ २३६ ॥ वैमानिकविमानानां क्रमात्संख्याऽभिधीयते । विमानलक्षाः सौधर्मे, द्वात्रिंशत्रिदिवौकसाम् ॥ २४० ॥ ऐशानसनत्कुमार- माहेन्द्रब्रह्मणामपि । श्रष्टाविंशतिर्द्वादशा-ष्टौचत्वारः क्रमेण तु ।। २४१ ॥ लचार्द्ध लान्तके शुक्रे, चत्वारिंशत्सहस्रकाः । षट्सहस्राः सहस्रारे, युगले तु चतुःशती ॥२४२॥ त्रिशत्यारणाऽच्युतयो - राज्ये ग्रैवेयकत्रिके । शतमेकादशाग्रं तु मध्ये सप्तोत्तरं पुनः ॥२४३ || विमानानांशतंत्वेक-मन्त्य ग्रैवेयकत्रि के अनुत्तर विमानानि पञ्चैव हि भवन्त्यथ ॥ २४४ ॥ एवं देवविमानानां लक्षाऽशीतिश्चतुर्युता । सप्तनवति सहस्रा - स्त्रयोविंशतिरेव च ॥ २४५॥ श्रमराणांविमानास्तु, निष्पङ्कमल धूलयः । रत्नराजिमयाचित्र संस्थाना मार्दवान्विताः ॥२४६॥ दीप्तिमन्तः श्रिया जुष्टा, - दीव्योल्लोचैश्च शालिनः । रचिताः किङ्करामयैः, कलिताश्चित्रतोरणैः ॥ २४७ ॥ गोशीर्षचन्दनरसैः, श्लक्ष्णैः सौरभ्यदायिनः । नानावर्णसुपुष्पाणां, मालाभिर्भूषिताऽन्तराः || २४८ || दह्यमानाऽगरुचोद - धूपधूमसुग
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
R++******++******++*O**