________________
Shri Mahavir Jain Aradhana Kendra
श्री भीमसेन
चरित्रे ।
॥ ८० ॥
*++******+****++**03++++**
www.kobatirth.org
क्लेश-वधबन्धादिदुःखभाक् ॥ १८२ ॥ इति तिर्यग्गतेर्भेदो - यथाऽगममुदीरितः । मानवानां गतेः कोऽपि, प्रकारः कथ्यतेऽधुना ॥ १८३ ।। द्विप्रकारा नरा भोग- कर्मभूभेदतः स्मृताः । देवकुर्वादयस्त्रिंशत्प्रसिद्धा भोगभूमयः ॥ १८४ ॥ जघन्यमध्यमोत्कृष्ट–भेदात्तास्त्रिविधाः क्रमात् । द्विचतुः षड्धनुर्दण्ड- सहस्रो जुङ्गमानवाः ॥ १८५ ॥ तास्वेकद्वित्रिपन्याऽऽयु-र्जीविनोभुञ्जते नराः । दशानां कल्पवृक्षाणां पात्रदानाऽर्जितं फलम् ।। १८६ ।। कर्मभूमिभवास्तेऽपि द्विधाऽऽर्यम्लेच्छ भेदतः । भारताद्याः पुनः पञ्चदशोक्ताः कर्मभूमयः ॥ १८७ ॥ धनुःपञ्चशतैस्तासु, भवन्ति प्रमितोदयाः । उत्कर्षतो मनुष्या हि, पूर्वकोटीप्रमायुषः ॥ १८८ ॥ उत्सर्पिएयवसर्पिण्योः कालयोवृद्धिहासिनी । भरतैरावतेस्यातां, विदेहस्त्वचतोदयः ॥ १८९ ॥ सागरोपमकोटीनां, कोटिभिर्दशभिर्मिता । आगमत्रैरिह प्रोक्तो- त्सर्पिणीचावसर्पिणी ।। १९० ।। सुखमासुखमा प्रोक्ता, सुखमा च ततोबुधैः । सुखमादुःखमाऽन्यापि दुःखमासुखमा क्रमात् ॥ १९९ ॥ पञ्चमी दुःखमा षष्ठी, दुःखमादुःखमा मता । प्रत्येकमितिभिद्यन्ते, ते षोढा कालभेदतः ॥ १६२ ॥ चतस्रः कोटयस्तिस्रो- द्वे च पूर्वादिषु क्रमात् । तिसृष्वम्भोधिकोटीनां, मानमुक्तं जिनागमे ॥ १६३ ॥ ऊना सहसैरब्दानां द्वाचत्वारिंशता ततः । चतुर्थ्यम्भोधिकोटीनां, कोटिरेका प्रकीर्त्तिता ॥ १६४ ॥ पञ्चमी वत्सराणां स्यात्सहस्राएयेकविंशतिः । तत्प्रमाणैव तत्त्वज्ञै- नूनंषष्ठी प्रतिष्ठिता ॥ १६५ ॥ तत्राऽरे प्रथमे मर्त्याः, पन्यत्रितयजीविनः । गव्यूतित्रितयोच्छ्राया- श्रुतुर्थदिन भोजिनः ॥ १६६ ॥ चतुरस्र सुसंस्थानाः सर्वलक्षणलचिताः । वज्रऋषभनाराच संहननाः सदासुखाः ॥ १९७ ॥ अपक्रोधा गतमाना निर्माया लोभवर्जिताः । सर्वदाऽयं स्वभावेनाप्यधर्मपरिहारिणः ।। १६८ ।। प्रायच्छंस्तत्र तेषां तु, वाञ्छितानि दिवाऽनिशम् । मद्यांगाद्याः कल्पवृचा - दशोत्तरकुरु
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandr
*+******+++******++++****+++******+K
त्रयोदशः सर्गः ।
॥ ८० ॥