________________
Shri Mahavir Jain Aradhana Kendra
***************************
www.kobatirth.org
तापविधायकाः || १३४ ॥ अवोचत्केवली वाच- माकर्णय धराधिप १ । यत्स्वरूपं श्रुतं सद्यः प्राणिनां त्रासदायकम् ॥ १३५ ॥ "नारकः सप्तधा सप्त- पृथ्वीभेदेन भिद्यते । अधिकाऽधिकसंक्लेश- प्रमाणाऽऽयुर्विशेषतः ॥ १३६ ॥ रत्नं शंर्करा वालुका - प धूमर्तमःप्रभाः । महातमैःप्रभा चेति, सप्तैताः श्वभ्रभूमयः ॥ १३७ ॥ तत्राऽऽया त्रिंशता लचै- बिलानामतिभीषणा । द्वितीया पञ्चविंशत्या, तृतीया च तिथिप्रमैः ॥ १३८ ॥ चतुर्थी दशभिर्युक्ता, पञ्चमी त्रिभिरुल्बणैः । षष्ठी पश्चोनलचेय, सप्तमी पञ्चभिर्बिलैः ||१३६॥ एवं नरकलचाणा - मशीतिश्चतुरुत्तरा । विज्ञेया तासु दुःखानां न संख्या निपुणैरपि ॥ १४०॥ षडङ्गुलास्त्रयोहस्ताः, सप्त चापानि विग्रहे । इयत्येव प्रमा ज्ञेया, प्राणिनां प्रथमचितौ ॥ १४१ ॥ द्वितीयादिष्वतोऽन्यासु, द्विगुणद्विगुणोदयः । उत्सेधः स्याद्धरित्रीषु, यावत्पश्चधनुःशती ॥ १४२ ॥ प्रसरदुःखसंतान, - मन्तर्मातुमिवाऽक्षमम् । वर्धयत्यङ्गमेतेषा मधोऽधो धरणीष्वतः ॥ १४३ ॥ एक आद्ये द्वितीये च त्रयः सप्त तृतीयके । चतुर्थे पञ्चमे च स्यु-देश सप्तदश क्रमात् ।। १४४ ।। षष्ठे द्वाविंशतिर्ज्ञेया, त्रयस्त्रिंशच्च सप्तमे । श्रायुर्दुःखाऽपवरके, नरके सागरोपमाः ॥ १४५ ॥ आद्ये वर्षसहस्राणि दशाऽऽयुरधमं ततः । पूर्वस्मिन्यद्यदुत्कृष्टं निकृष्टं तत्तदग्रिमे ॥ १४६ ॥ कदाचिदपि नैतेषां विधिरेधयतीहितम् । दुःखिनामनभिप्रेत-मिवायुर्वर्धयत्यसौ ॥ १४७ ॥ रौद्र ध्यानाऽनुबन्धेन, बह्वारम्भपरिग्रहाः । तत्रोपपादिका जीवा - जायन्ते दुःखखानयः ॥ १४८ ॥ तेषामालिङ्गिताङ्गानां संततं दुःखसम्पदा । न कदापि कृतेर्येव, सुखश्रीर्मुखमीचते ॥ १४६ ॥ साधुणी लोचने वाणी, गद्गदा विह्वलं मनः । स्यात्तदेषां कथं दुःखं, वर्णयन्ति दयालवः
१४
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
******************