________________
Shri Mahavir Jain Aradhana Kendra
*******
www.kobatirth.org
निखिल सिद्धान्ततस्य वेदियोगनिष्ठशास्त्रविशारदजैनाचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः । श्रीमद् अजितसागरसूरीश्वरविरचितम्
श्रीनीमसेनचरित्रम् ॥
प्रथमः सर्गः ।
श्रेयः श्रीरमणीविलासर सिकः श्रीनाभिभूपाङ्गजः कन्यायं विदधातु सर्वजगतः सेव्यः सुरेन्द्रवजैः । यस्य स्कन्धतटे लुठच्छुमकचश्रेणी प्रयातुर्भव - नद्याः पारमजस्रशैवललता मन्ये बभौ भासुरा ॥ १ ॥ देवेन्द्राऽसुरमानवेन्द्रनिष हैः संपूजितं भावतो ध्यानाऽऽरूढतया विशोध्य हृदयाम्भोजं सदा योगिभिः । प्रत्यक्षीकृतमूर्त्तिमाशु विमलं शान्तिप्रदं तान्विदं न मम्येऽजितनाथमीशमनिशं श्रीसंघसौभाग्यदम् ॥ २ ॥ शशाङ्कविम्बं पशुजातिजोऽपि मृगो यदीयक्रमसेवया भजत् । निशान्त मैश्वर्य समृद्धिशर्मणां स शान्तिनाथः शिवदोऽस्तु नित्यम् || ३ || यत्कीर्त्या घवलीबभूव युगपत्सर्वजगन्मण्डलं, तन्मध्ये वसुदेवखनुरपि नो संलचितः संस्थितः । जल्पन्त्येव निरीश्वरं जगदिदं तेनाज्य सांख्या
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
8 ***OK+++++++*K