________________
श्रीमौमसेनचरित्रे।
त्रयोदशः सर्गः।
तेनाऽऽशु पतन्ति पडू ॥ ३५ ॥ गुणान्सदोपार्जय सद्गुणो जनैः, प्रशस्यते चाप इव क्रियासु च । गुणेन हीनः शरवद्भयंकरो-विलचतामेति जने चणादपि ॥ ३६॥ तन्त्रान्वितोऽप्यत्र समाङ्गपालने, न मन्त्रिसामीप्यमपेतुमर्हसि । श्रिया पिशाच्येव नृपत्वचत्वरे, परिस्खलन् को नृपतिनै वञ्चितः ॥ ३७॥ न बद्धकोशं स तथा यथाजं, विकोशमाक्रामति षट्पदालिः । पराभवोपद्रवनाशनाई, कुर्वन् नृपो कोशगृहं सदेति ॥ ३८॥ विभूतये स्नेहभरान्वितं त्वं, सिद्धार्थराशि श्रितमाविधेहि । त्यक्त्वा क्षणात्स्नेहमसौ निपीडितः, खलीभवन् केन निषिक्ष्यते पुनः ॥ ३९ ॥ नियोजयन्योग्यमयोग्य| कर्मणि, पाविहीनखपुणीव यो मणिम् । विवेकशून्यः स धरापतिः कथं, सतामनौचित्यविदाश्रयो भवेत् ॥ ४० ॥ सुसम्पदा चिन्तितरत्नमेकं, यशस्तरोः स्थानमनुत्तमं च । अशेषभूभृज्जननीसमानां, कृतज्ञता तां सुतरां समाश्रय ।। ४१ ॥ स्थितेऽपि कोशे चितिपः पराश्रयात्, प्रयाति नूनं लघुता जने सदा । निःशेषलोकस्थितिरच्युतोऽपि किं, बलिं श्रयमात्र बभूव वामनः ॥ ४२ ।। सुनीतिरीतिं प्रथितां तरीमिव, श्रयन्ति ये भूमिभृतो न मानिनः । विपनदी ते न तरन्ति मोहिता, विरोघिदुर्वातचयेन कम्पिताम् ।। ४३ ॥ परान्महोभिर्मयदैर्जडाशयान् , विशोषय त्वं किल कुपदेशवत् । यथा न लक्ष्मीर्घटवाहिकेच ते, कृपाणधारासलिलं विमुञ्चति ॥४४॥ विशुद्धपारिणः प्रकृतीः सुरञ्जयन् , विजेतुमिच्छेदरिमण्डलं नृपः । बाह्या व्यवस्थामिति विभ्रदान्तरान् , कथं जयी स्यादनिरुद्ध्यवैरिणः ॥ ४५ ॥ ततोजिगीषुः प्रयतेत जेतुं, विरोधिनोऽन्तः प्रथम नरेशः।
१ स्नेहः प्रेमा ( पक्षे ) तेलम् । २ आश्रितंजनं सिद्धार्थराशि कृतकृत्यं । पक्षे सिद्धार्थागौरसर्षपाः । ३ दुर्जनीभवन् (पक्षे) पिण्याकां गच्छन् ।
।। ७५ ॥
For
And Persone
ly