________________
ShriMahavir JanArchanaKendra
www.kobabirth.org
Achanh
sagan Gyaan
भूतमपेततत्त्वं, दुःखाऽस्पदं जननमृत्युजरोपपत्रम् । संसारबन्धनमनित्यमवेक्ष्य धन्या-ज्ञानासिना तदवभिद्य विदन्ति तस्वम् ॥२३५ ॥ धर्मः प्रोज्झितकैतवः सुविधिना तापत्रयोन्मूलनो-लोकेऽस्मिन्सततं पितेव हितदः संसेवितोजायते । पाथेयं परमं प्रकीर्तितमसौ मोचाऽध्वसंयायिना, तस्मात्सर्वद एष एव मनुजैः संसेव्यतां सर्वदा ॥२३६।। भीमसेनो गुरोर्वाणी, निशम्याऽमृतसोदराम् । हदि सञ्जातवैराग्यो-मुनि नत्वा गृहं ययौ ।। २३७ ॥
भासीच्छीसुखसागरः श्रुततपागच्छाऽऽम्बुजाऽहस्करः, मूरिः श्रीयुतबुद्धिसागरगुय॑त्पादसेवारतः। तच्छिष्येण विनिर्मितेऽजितसमुद्रेणैष सूरीन्दुना, सर्गो भूपति भीमसेनचरिते पूर्णोऽभवद्द्वादशः ।। २३८ ।।
इति श्रीभीमसेननृपचरित्रे द्वादशः सर्गः समाप्तः ॥ १२ ॥
॥ अथत्रयोदशःसर्गःप्रारभ्यते ॥
तमस्विनीजाततमस्तति यो-निवयंश्चन्द्र इति प्रसिद्धः।
चंद्रप्रभुं तं प्रणमामि देवं, सार्वत्रिकं नाशयते तमो यः ॥१॥ भीमसेननरेशोऽथ, धर्माऽऽराधनतत्परः । संसारं तत्वतोजान-असारं सर्वदाऽभवत् ॥२॥ भवोदधौ बुडजन्तु-जातस्यो
For Private And Personlige Only