________________
सर्गः।
भीमसेनचरित्रे ।
॥७३॥
मुख्य, मेनिरे जिनभाषितम् । आत्मवृत्ति समालम्म्य, मोक्षमार्गयियासवः ॥ २१९ ॥ दयारसाईचेतस्काः, परोपकृतिवासिताः । सम्यक् क्रियारथारूढाः, स्खलन्तिस्म न कुत्रचित् ॥ २२० ॥ व्रतादिविविधं धर्म, पालयन्तो नृपादयः । ज्ञानाऽऽद्याराधनं चक्रुः, शुद्धवृत्तिसमन्विताः ॥ २२१॥ निजाऽऽयुषः क्षये जाते, कामजित्प्रमुखाः समे। जैनधर्मप्रभावण, भेजिरे स्वर्गसंपदम् ॥ २२२ ॥ कामजित्स्वर्गतश्रुत्वा, भीमसेननरेश्वर ?। जातस्त्वमेव लोकेऽस्मिन् , पूर्वकर्मविपाकतः ॥२२३॥ प्रजापालस्य जीवस्तु, हरिषेणनृपोऽभवत् । क्रमात्प्रीतिमती युक्त्वा, सुशीला समजायत ॥ २२४ ॥ विद्युन्मत्याश्च जीवोऽपि, पूर्वकर्मप्रभावतः । क्षीणे पुण्ये युतः स्वर्गा-दभवत्सुरसुन्दरी || २२५ ॥ देवदत्ता दिवञ्युत्वा, सुनन्दा तिकाऽजनि । कामदत्ताऽभवदासी, विमला नाकतः युता ॥२२॥ बुद्धिधनस्य जीवोऽयं, देवसेनस्तवाऽऽत्मजः । वसुभूतिः युतः स्वर्गा-केतुसेनत्वमासदत् ।। २२७ ॥ त्रिवारं च त्वया चक्रे, मुनीनां वश्वना पुरा । तस्मात्रिर्विगतं वित्तं, करस्थमखिलं तव ॥ २२८ ।। पुरा भवे त्वया राजन् , स भार्यो रचितो वणिक् । त्वत्पत्न्या दूषिता भार्या, वणिजोहेतुमन्तरा ॥ २२९ ।। स एवाऽभूचिम्मृत्वा, लक्ष्मीदत्तो धनान्वितः। तद्भार्या च सुभद्राऽऽसीव, तस्मादेतद्विडम्बना ॥ २३० ॥ कपटेन त्वया भूषा-भातुस्तेऽपहृतास्ततः । राज्यभ्रष्टोऽभवो राजन् !, कर्मभिरीदृशीगतिः ॥ २३१ ॥ नाऽभुक्तं चीयते कर्म, यद्येन समुपार्जितम् । प्राग्भवोपार्जितं दुःख,-मनुभूतं त्वयाऽखिलम् ॥२३२॥ कोऽपिनोवञ्चनीयोतोऽ-मानवो भूतिमिच्छता । धर्म एव सदा सेव्यो-यत्र धर्मस्ततोजयः ॥ २३३ ॥ अहिमिव जनसंग, वर्जयेत्सर्वदा यः, शवमिव युवति | यो दूरतो नैच पश्येत् । विषमिव विषयोघं मन्यते योदुरन्तं, स जयति खलु धीरो मोक्षधाम प्रयाति ॥ २३४॥ अज्ञानपङ्कपरि
।। ७३॥
For PrivateAnd Personale Only