________________
Shri Mahavir Jain Aradhana Kendra
www.khatirth.org
कञ्चिद्धरापतिः । दृष्ट्वा किमस्य दानेनेत्युक्त्या दुष्कर्म भागभूत् ॥ २०२ ॥ ततोऽन्यदा वनं भूपो --जगाम क्रीडनेच्छया । भुञ्जानं व्रतिनं तत्र, विलोक्य क्रोधमाश्रयत् ॥ २०३ ॥ तदाहारं समुद्दाल्य, प्राक्षिपद्दरतोनृपः । कण्ठे निवष्य तं भि कदर्थीकृतवान्मुहुः || २०४ || समुत्पन्नदयः चमापः पुनस्तं मुक्तवान्मुनिम् । कण्ठबन्धनतस्तेन कर्मणाऽवध्यत स्वयम् ॥ २०५ ॥ ततो व्रजन्वनप्रान्ते, वानरीं ससुतां नृपः । विलोक्य केवलं तस्या-वालं जग्राह लाघवात् ॥ २०६ ॥ कियद्दूरं ततो गत्वा मुमोच कपिबालकम् । क्षुधितं सदयस्तं स - पूर्वकर्मवशंगतः ॥ २०७ ॥ कदाचित्स वनं प्राप्य, मुनेराश्रममासदत् । कौतुकेन तदीयश्च, जलपात्रमगोपयत् ॥२०८॥ मुनिर्जलं विना भूरि, व्याकुलोऽभूचूषातुरः । कृपया तेन तत्पात्रं, पश्चाद्दत्तं तपस्विने ॥२०९॥ ततो व्रजन् पुरः क्ष्मापो - विपिनाऽन्तः स्थितं मुनिम् । प्रणम्य खोचितस्थान -मास्थितो धर्मनिष्टधीः || २१० ॥ मुनिना तेन सद्बोधो- दयामुख्यः प्ररूपितः । भूपतिस्तमथाऽऽसाद्य, धर्मबुद्धिरजायत । २११ ॥ तदोत्प्लवन्मृगः कोऽपि, लतौघवेष्टितक्रमः । न शशाक मनाग्गन्तुं तद्दः खेनाऽऽतिपीडितः ॥ २१२ ॥ निरीक्ष्य तं मृगं भूपो, दुःखार्त्त गुरुबोधतः । निर्मुक्तं चक्रिवान्सद्यो वल्लीव्यूहाद्दयान्वितः ।। २१३ ॥ मुनिं नत्वा वनात्क्ष्माभृ-दागमत्स्वनिकेतनम् । आत्मज्ञानरतो नित्यं धर्मकृत्यमसाधयत् ॥ २१४ ॥ पुनस्तं मुनिमानन्तुं सकुटुम्बो नरेश्वरः । जगाम भक्तिभारेण, विनम्राऽऽननपङ्कजः ।। २१५ ।। मुनिं प्रदक्षिणीकृत्य, प्रणम्य वसुधाधिपः । निषसादोचितस्थाने, परिवारसमन्वितः ।। २१६ ॥ मुनिना देशनाऽऽरेभे, भववारिधितारिणी । तां निपीय सुधाकल्पां, सर्वेऽपि धर्ममाप्नुवन् ॥ २१७ ॥ विशुद्धां भावनां सर्वे, भावयामासुरुत्सुकाः । गुरूणां शुद्धबुध्यैव, स्मरन्तश्चरणाम्बुजम् ॥ २१८ || अहिंसाऽऽदिव्रतं
१३
For Private And Personal Use Only
R+******+******++++++
Acharya Shri Kassagarsun Gyanmandir