________________
ShriMahavir JanArchanaKendra
Acharyatha.KailassagarsunGvanmandir
नवमे सर्गेदयार्द्रचेतसा भीमसेनेन निजोपकारित्वात् स श्रेष्ठी विमोचितः। स्वदेशात्तत्पत्नी भद्राञ्च निर्वासयामास | भीमसेनस्तत्रस्थितो धर्माराधनपरायणोऽभूत् । प्रोत्तुङ्गमेकं जिनप्रासादञ्च तत्र निरमापयत् , शीलप्रभावतः सुशीला तच्छिखरं स्थिरीचकार । ततोऽञ्जियनृपसमागमः, ज्येष्टभ्रातरं स्मरता हरिषेणेन विह्वलीभूतेन तदन्वेषण कृते निजाप्तदूताः प्रेषिताः । स्वराज्यं स्वाधीनीकर्तुं भीमसेनस्योद्योगः।
दशमे सर्गेचतुरङ्गसेनासमेतस्य भीमसेननरेशस्य विजयसेनेन सार्द्ध राजगृहं प्रति प्रयाणम् । मध्येमार्ग गङ्गामुत्तीर्य तत्तीरप्रदेशे निवासस्तवर्णनश्च । तत्रत्यश्रीचन्द्रप्रभप्रभुमन्दिरे जिनेन्द्रप्रतिमादर्शनं तत्कृतपूजनश्च । सुरेन्द्रकृता श्रीभीमसेननृपस्तुतिश्च । तामश्रधानेन केनचिद्देवेन तत्र समागत्य तत्परीक्षणं चक्रे, तुष्टेन सुरेण नृपतये रत्नहारो दुकूलयुगलञ्च प्रददे । सुभद्रपल्लीपतेर्भूपतिना साकं समागमः । निजमन्त्रिसमेतस्य हरिषेणस्य नृपदर्शनम् । तत्कृतस्वापराधक्षमापनम्, राजगृहपुरप्रवेशश्च, अमारीपटघोषणा, चोर्यादिसप्तव्यसननिवारणवर्णनम् ।
एकादशे सर्गेराजगृइपुरे श्रीधर्मबोधकमुनिसमागमनम् , सपरिवारस्य भीमसेनस्य मुनि वन्दितुं प्रयाणम् । मुनिकृतधर्मदेशनावर्णनम् ।।
For Private And Personlige Only