SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री भीमसेन नृपचरित्रस्य ॥५॥ ***+++******+K www.kobatirth.org नगरं कियद्दूरे स्थितं विलोक्य तस्मिन्नेव वर्त्मनि विशुद्धजलसंभृतं संप्राप्तं सरोदृष्ट्वा देहविशुद्धयर्थं तत्तीरे स्थितिमातनोत् । यावद्रत्नकन्थादिकं विमुच्य स स्नातुं सरः प्रविवेश, तावत्कश्चित्कपिः कूर्द्दमानस्तद्रत्नप्रन्थि गृहीत्वा पादपान्तरितो बभूव । ताश्च द्रव्यप्रन्थिमलभमानो भीमसेनः शोकसागरे निमग्नो मरणाभिमुखोऽभूत् । तदानीं सिद्धसमागमः सिद्धरसप्राप्तिश्च ततो भीमसेनो मिष्टान्नमानेतुं क्षितिप्रतिष्ठं जगाम, सिद्धनरो रसतुम्बके गृहीत्वा निजाऽभीष्टप्रदेशमयासीत् । गृहीतमिष्टान्नस्तत्र स सत्त्वरं समायात:, पलायमानं तं सिद्धपुरुषं विज्ञाय तन्मिष्टान्न शिलातले विमुच्य मर्त्तुकामः स वटतरुशाखायां पाशं निवध्य पञ्चपरमेष्ठि नमस्कार मस्मात् । अष्टमे सर्गे धर्मघोषाऽभिघो जङ्घाचरणलब्धिमान्मुनिस्तदानीं तत्र नभस्तलादवततार, आत्मघातसमानं पापमिहापरं न विद्यत इत्याद्युपदेशेन तेन मुनिना स प्रतिबोधितः । तुष्टमनसा भीमसेनेन शुद्ध भावतस्तन्मिष्टान्नेन स मुनिः प्रतिलाभितः । विशुद्धतरमाहारं प्रतिपद्य मुनिस्तुतोष, तत्र सत्पात्रदान प्रभावात् पञ्चदीव्यानि प्रादुर्बभूवुः । चमत्कृतः पौरजन समेतो विजयसेननृपतिस्तत्र समागतः । मुनिना धर्मदेशना विहिता, वर्द्धमानतपसः प्रभावश्च प्रकटीकृतः । भीमसेन विजयसेनयोर्मिथः समागमो वार्त्तालापञ्च, प्राक्तनविगत पदार्थानां प्राप्तिः, पुत्रकलत्र समागमञ्च । क्रुद्धेन विजयसेनभूपेन सभार्यो लक्ष्मीपतिः श्रेष्ठी निजाऽन्तिके समाहूतः । शूलारोपणेन मरणान्त शिक्षा च प्रदिष्टा | For Private And Personal Use Only Acharya Shri Kissagarsun Gyanmandir ***+193+0 विषया नुक्रमः । ॥ ५ ॥
SR No.008549
Book TitleBhimsen Nrup Charitra
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherSagargaccha Jain Sangh Sanand
Publication Year1931
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy