________________
MEAK
श्री
एकादशः सर्गः।
भीमसेनचरित्रे ।
॥६५॥
श्नता तथैव, ब्रह्मेति धर्मोदशधा प्रदिष्टः ॥ २६६ ॥ हिंसानृताचार्थनिमग्नभावाः, कुदृष्टयोनास्यविधि लभन्ते । तस्मात्स्वरूपं रुचिरं तदीयं, निगद्यते तत्त्वनिधानशास्त्रैः । २६७॥ चिन्तामणिर्दीव्यनिधिश्वसिद्धिः, कन्पद्रुमाः कामदुधा प्रसना । एते हि धर्मक्षितिववभस्य, सार्द्ध श्रिया वेधि चिरत्नभृत्याः ॥ २६८॥ सुराऽसुरेन्द्रोरगमानवेन्द्रः, समीहितां पूज्यतमा त्रिलोक्याम् । श्रियं प्रसूते व्यसनानि हन्ति, शरीरिणां शं च तनोति धर्मः ॥ २६९ ॥ पर्जन्यवायूष्णकरः चपाकरः, क्षितिः पयोधिस्त्रिदशेश्वरस्तथा। दिग्रक्षकाश्चापि परोपकारतां, कुर्वन्ति सर्वे किल धर्मरक्षिताः ।। २७० ।। जगत्त्रये तन्नाहि भुक्तिमुक्त्यो-निवन्धनं धर्मभवप्रभावात् । धर्मात्मभिर्यन कदाचिदिष्टं, स्वसंनिधिस्थं समवैचि भव्याः १ ॥ २७१ ॥न धर्मतुल्यो भुवि विद्यतेऽपरो-विवेकसर्वाभ्युदयप्रसाधकः । आनन्दसन्दोहलताम्बुदावलि-हितावहः पूज्यतमः शिवप्रदः ॥२७२।। यदात्मनोऽनिष्टमिहाऽस्ति कार्य, कायेन वाचा मनसा च तन्नो। स्वमेऽपि धर्माथिजनैः परेषा-मितिप्रधानं खलु धर्मलिङ्गम् ।। २७३॥ धर्मः शर्म भुजङ्गम रनिशं सारं प्रदातुं क्षमो, धर्मः श्रेष्ठतरं सुखं च नयते, विश्वे तदेकार्थिनम् । धर्मः स्वर्गपुरीयसंपदमहोदत्ते क्षणादेहिना, धर्मः किं न करोति मुक्तिवनितासंभोगयोग्यं नरम् ।।२७४॥ विलोक्यते यत्र जडाजडात्मकः, पदार्थसार्थः समयार्थकोविदैः । जीवादिलोकः समुदाहृतः सक-स्ततोऽन्य भाकाश इति प्रकन्पितः ॥ २७५ ॥ प्रान्ते मरुद्भिस्त्रिभिरुपवेगै-महाबलैर्वेष्टित आस्थितोऽयम् । लोकत्रयेण प्रथितप्रदेशो-लोकोऽस्ति तालगुमतुल्यसंस्थः ॥२७६।। “वेत्रासनसमोऽधस्ता-मध्यतोझल्लरीनिभः । अग्रे मुरजसंकाशो-लोकः स्यादेवमाकृतिः" ।। २७७ ॥ भनाधनन्तोऽस्त्ययमेव लोका, सिद्धः स्वयं नापि विनश्वरश्च । अनीश्वरोऽपि प्रथितप्रभावो-भृतोऽस्ति जीवादिपदार्थतोऽलम् ॥ २७८ ॥ यस्मित्रिमे
॥६५॥
For
And Persone
ly