________________
ShriMahavir JanArchanaKendra
Achar
प्राणिगणाः समस्ता-विचित्रयोनिस्थितिमादधानाः । स्वकर्मपाशैकवशंगताच, जन्मादिदुःखं सततं लभन्ते ॥ २७६ ।। लोकोऽयमुत्पत्तिलयेन हीनः, पूर्णो विनाशात्मकवस्तुजातैः । अनादिसिद्धोऽनिलचक्रमध्ये, स्थितः पुराणः स्वयमेवबोध्यः ॥ २८० ॥ “निष्पादितो न केनापि, न धृतः केनचिच्च सः। स्वयं सिद्धो निराधारो-गने किन्त्ववस्थितः" ॥ २८१॥ दुरन्तदुःखप्रतिपन्थिपीडितः, प्रतिषणं मूञ्छित एष जीवः । न शक्यते नारकवेदनातो,-मोक्तुं जनैः कृच्छुगतोऽपि भूरि ।। २८२ ॥ तस्माद्विनियोति कदाचिदेष-भूम्यादिकस्थावरतां प्रयाति । ततः स केनापि शुभेन कर्मणा, सत्वमामोति नितान्तदुःसहम् ॥ २८३ ॥ ततो विनिष्क्रान्त इयर्ति जीवः, पर्याप्तसंत्री सुकृताऽनुयोगात् । तिर्यक्षु पञ्चेन्द्रियता कदाचि-त्पूर्ण शरीरावयवरनिन्द्यैः ॥ २८४ ॥ तत्रापि यद्योग्यगुणं नरत्वं, सद्देशजात्यादिसमन्वितश्च । सुदुर्लभं प्राणिगणा लभन्ते, कर्मक्षयेणैव परंपरातः ॥ २८५ ॥ मनुष्यतामप्यधिगम्य देहिना, सर्वाचसामय्यतिसूक्ष्मशेमुषी । प्रशान्त
ताऽऽरोग्यमनल्पभावना, यत्काकतालीयसमं विभाति तत् ॥ २८६ ॥ ततोविरक्तं विषयाऽभिलाषया, विशुद्धभावेन समन्वितं * मनः । भवेद्यदा पुण्यनियोगतः कचित् , न लभ्यते तत्त्वविनिश्चयः पुनः ॥ २८७ ॥ अत्यन्तदुर्लभतरेष्वपि तेषु लब्धे-वत्र
प्रमादवशतः कतिचित्कदाचन । कामाभिलाषिमनुजाः शुभदैवयोगा-दर्थानुसक्तमतयः स्वहिताच्यवन्ते ॥ २८८ ॥ केचिच्च मार्ग समवाप्य सम्यक्, रत्नत्रयाख्यं शिवपत्तनस्य । प्रचण्डमिथ्यात्वहलाहलस्य, त्यजन्ति पानेन मुमूर्षवस्तम् ॥ २८६ ॥ पाखण्डिनां कूटतरोपदेशा-नश्यन्ति केचित्स्वयमेव मूढाः । नष्टाश्च केन्यानपि नाशयन्ति, न संसृतेः पारमतो लभन्ते ॥ २९०॥ विवेकमाणिक्यमिहाऽपहाय, सर्वार्थसिद्धिप्रदमप्रमेयम् । आपातरम्येषु मतेषु मूढः, प्रवर्तते सद्गुरुभक्तिहीनः ॥२९१॥
For Private And Personlige Only