________________
Shri Mahavir Jain Aradhana Kendra
श्री
भीमसेन
चरित्रे ।
॥ ६२ ॥
++******+++******+****
www.kobatirth.org
भूव योगो विधिना नियोजितः ॥ १८६॥ करोमि किं राज्यपदश्रितोऽहं त्वामन्तरा पूज्य पदारविन्द १, निवेद्य निर्वृत्तिमवैमि कस्य, पुरः कथं स्वानुमतां सुबन्धोः ॥ १८७ ॥ बन्धुः कनिष्ठोऽपि विहाय मामकं, निरर्गलं स्नेहमनन्यभावनः । तृणीकृताऽशेषसुखानुबन्धनः, शिवाभिलाषी व्रतमाददे वरम् ॥ १८८ ॥ इत्थं स्मृताऽनेकतदीयकर्मा, राज्यासनस्थोऽपि स विक्लवोऽभूत् । गुणाकरं भ्रातरमत्रलोके, हातुं भवेत्कोहि नरः समर्थः ॥ १८९ ।। हरिषेणम्मुनिर्धीरो - गुरुशुश्रूषये रतः । समबुद्धिर्निजाचारप्रवणोऽन्यत्र जग्मिवान् ।। १६० ॥ बन्धुवर्गस्तदीयोऽपि मुनीनां दर्शनाऽवधि । प्रहितेक्षणकस्तस्थौ, शून्यचित्त इव चणम् ॥ १९१ ॥ भीमसेनस्ततः स्वीय-परिवारसमन्वितः । विरहव्यथितो भूपो - निजस्थानमुपाययौ ॥ १६२ ॥ हरिषेणमुनिर्नित्यं, मुनिचर्याविचक्षणः । चारित्रं पालयन् शुद्धं, सूत्राऽभ्यासमथातनोत् ॥ १९३ ॥ भूतलं पावयन्मूरि-मैन्याम्भोज दिवाकरः । क्रमाद्राजगृहं प्राप, शिष्यवृन्दसमन्वितः ॥ १९४ ॥ गुरुदर्शनतः पौरा बभूवुः प्रमदोत्कटाः । पादयोः प्रणिपातेन, तत्यजुस्तापसन्ततिम् ।। १६५ ।। धर्मलाभाशिषा सूरि-र्मव्यान् भव्यतराशयः । प्रीणयामासिवाँलोके, धर्मलाभो हि दुर्लभः ॥ १६६ ॥ भवोदधितरी र्मव्या, देशना गुरुणा ददे । सूरीणामेतदाख्यातं, व्यसनं हि प्रियङ्करम् ॥ १९७ ॥ देशनामृतपानेन, मवदावाऽग्नितापितः । भव्यवातः प्रशान्तात्मा, बभूव विगतामयः ।। १९८ ।। कतिचिद्वासरांस्तत्र स्थित्वाऽन्यत्र प्रमोदतः । विहारं कृतवान्यूरि-कत्र मुनिसंस्थितिः ॥ १९९ ॥ तीर्थानि पर्यटन सूरिः । शिष्यैः साकं जितेन्द्रियः । कर्मवारि विशोषाय, जगाम विमलाचलम् ॥ २०० ॥ हरिषेणमुनिर्बुद्ध्या, तर्जिताऽमृतग्गुरुः । गुरुप्रसादतो विद्या- पारगामी क्रमादभूत् ॥ २०९ ॥ समाधियोगनिष्णातः, प्राणायामपरायणः । अचिरेणाऽर्थविजज्ञे स मुनिर्मुनिवल्लभः ॥ २०२ ॥
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
एकादवाः सर्गः ।
।। ६२ ।।