________________
AcharyanKadamagranGamana
कुटुम्बस्वजनादिकम् । तस्मादपरिहार्येऽर्थे, प्रयासं कुरु सत्त्वरम् ॥१३७ ।। मृगतृप्योपमं सर्व, धनधान्यादिकं महत् । ज्ञानभानुप्रकाशेन, क्षीयते मोहतामसम् ॥ १३८ । अध्रुवेऽशाश्वतेऽनित्ये, देहेऽस्मिन्मूढबुद्धयः । ममत्ववशतो रत्ता-भवन्ति | न तु पण्डिताः ॥ १३६ ॥ ज्ञानिनस्त्वात्मसंपचौ, व्यापृताः समदृष्टयः । तृणायाऽपि न मन्यन्ते, चक्रवादिसंपदम् ॥ १४० ॥ सूत्रचारित्रभेदेन, द्विधा धर्मः अरूपितः । श्रुत्वा स्त्राणि तज्ज्ञानं, धारयेदिनिश्चलः ॥१४१ ॥ चारित्रस्यापि द्वैविध्य-मगार्यनगारिभेदतः । आद्यो द्वादशभिः प्रोक्तो-व्रतैर्लोकभयाऽपहः ॥१४२ ॥ द्वितीयस्तु समादिष्टो-महापञ्चव्रतैबुधैः । द्वावपि शुद्धमावेनाऽऽ-चरिती शिवकारिणौ ॥ १४३ ॥ अगारिधर्मोऽप्यनगारिधर्मो-मार्गाविमौ द्वौ समयप्रसिद्धौ । समाश्रयन् भूजलमार्गव?, भव्यः शनैः साक् शिवशर्म यायात् ॥ १४४ ॥ यथाशक्ति शुभः सेव्यो-धर्मः कल्पतरूपमः। भव्यरादरतो नित्यं, सुखसंपत्तिहेतवे ॥ १४५ ॥ जिनोक्तिर्माननीयेय-मचयार्थप्रदायिनी। इहामुत्र स्वधर्मेण, जयन्ति सुखिनो जनाः ॥१४६ ॥ देशनां विशदामेवं, निशम्य मुनिनोदिताम् । भव्यानां हृदयाकाशे, वैराग्यं समजायत ॥१४७॥ केचित्सम्यक्त्वमापन्नाः, केपि थाब्रतादराः। यथाऽऽगता जनाः सर्वे, तथा जग्मुर्मुदान्विताः ॥१४८॥ धृतसम्यक्त्वधर्मः स-भीमसेननराधिपः। परिवारसमायुक्तः, प्रययौ निजमन्दिरम् ॥ १४६ ॥ हरिषेणस्तु तत्रैव, तस्थिवान्मुनिसंनिधौ । जातवैराग्यसंवेगः, संसाराऽसारतां विदन् ॥ १५० ।। उवाचेति मुनीन्द्रं स-विनीतो नम्रया गिरा । संयम पालयिष्येऽहं, श्रद्धया मोचदायकम् ॥१५१॥ ज्येष्ठबन्धोरनुज्ञान, संप्राप्याऽऽगत्य सच्चरम् । दीचा गृहिष्ये त्वत्पार्थे, सत्यमेव मुनीश्वर ॥१५२।। समाकर्ण्य ततः मरि-हरिषेणवचः शुभम् । कथयामास कस्मिन्, विलम्बमत्र मा कुरु ॥१५३॥
For Private And Pesso