________________
सर्गः।
भीमसेनचरित्रे ।
॥ ५४॥
न जानन्ति, स्खलन्ति च पदे पदे ॥१३७॥ शरणाऽऽगतवत्सल ? प्रमो? तब सेवा न मया व्यधीयत । किमतो व्यलिक परं हहा ? ? गुरुवन्धोः समतैकसेवधेः ॥१३८ ॥ गुरुदुःखविधायकस्तव, सततं प्रत्युत जन्जिवानहम् । मदमानवशंगतेन्द्रियः, प्रमदोक्ति प्रतिपद्य बान्धव ? ॥१३६ ।। अपराधपरंपरा मया, विहिता मूढतमेन दुर्वचा। न ममाऽस्त्यपरोद्धतिर्विभो ? | मरणाद्दष्टचरित्रसेविनः ॥१४०॥ करुणां कुरु पूज्यवान्धव , वचनं मे प्रतिपालय द्रुतम् । मरणं तव सन्निधावई, प्रविधाय
चपयामि दुष्कृतम् ॥ १४१ ॥ अहमप्यनृणीभवाम्यत-स्त्वमपि चेमनिधिर्मविष्यसि । इदमेव मदिष्टसाधनं, प्रतिजानामि विभो शिवश्रियै ॥ १४२ ॥ विलापमिति कुर्वाणो-मुहुर्नेत्रजलेन सः । चरणौ चालयामास-भीमसेननरेशितुः ॥१४३॥ भीमोऽपि चिन्तयामास, मनसेत्यस्य दूषणम् । नैवाऽस्ति किन्तु मे कर्म-विपाकोजनि साम्प्रतम् ।। १४४ ॥ कनीयानप्यसौ बन्धु-गरिष्ठस्नेहभावनः । मद्गणस्मरणेनैव, समयं यापयत्यहो? ॥ १४५ ॥ मद्दर्शनसमीहाऽस्य, चेतसि सुचिरंतनी । समुद्भुतेति जानेऽहं, ईदृक्चेष्टा हि नाऽन्यथा ॥ १४६ ॥ विपरीतमतिर्वाऽपि, भ्रातृस्नेहो दुरत्ययः । सर्वदा नैकरूपेण तिष्ठन्ति बुद्धिमत्तराः ॥ १४७॥ प्रदाता सुखदुःखाना, नान्योऽस्ति भूतले जनः । कृतकर्मवशाजन्तुः, सुखं दुःखश्च सेवते ॥१४८|| विचिन्त्येति निजं बन्धु-मुपवेश्य स्वसंनिधौ । सोऽवोचनास्ति ते दोषो-भ्रातः ? स मम कर्मणः ॥१४९॥ दैवादेव समुत्पनो-ऽस्माकमेष समागमः । अहोभाग्यं मदीयं त-जानामि शुभकर्मतः ॥१५०॥ श्रुत्वैतद्वचनं भ्रातु-ईरिषेणो मुदं वहन् । अपतत्सहसोत्थाय, सुशीलापादपद्मयोः ॥१५१॥ स्वाऽपराधेन नम्रास्यः, चरदस्राऽऽविलेषणः । रुद्धकएठं जमादेति, स भाले निहिताञ्जलिः ॥१५२।। अहमेव सुदारुणो जने, सुतरां चोभविधानतस्तव । जननीव सदाहणोचिता, त्वमिहेवाऽखिल
॥ ५४॥
For Private And Person
Only